________________
१५२ ]
आचार्यश्रीहेमचन्द्रविरचिते [ धा० १००० अथ घटादयो वर्णक्रमेणाऽऽस्वादिसमाप्तेर्वक्ष्यन्ते, तत्र घटेः पूर्वाचार्यप्रसिद्धघा पूर्व निर्देशः ॥
'१००० घटिषु चेष्टायाम् ' । चेष्टा ईहा । इदित्वात् “ इङितः०" ३।३।२२ इत्यात्मनेपदे घटते, जघटे । सनि जिघटिषते । यङि जाघट्यते । क्ते घटितम् । गौ " घटादेई स्वो०" ४।२।२४ इति इस्वे घटयति । "-दीर्घस्तु वा जिणम्परे" अघाटि, अघटि, घाटिष्यते, घटिष्यते, घाटघाटम् घटंघटम् । “णिवेच्या०" ५।३।१११ इत्यने घटना । पिवाद् अङि घटा । इह घटादीनामनेकार्थत्वेऽपि पठितार्थेषु एव घटादिकार्यविज्ञानम् , तेन उद्घाटयति, “कमलवनोद्घाटनं कुर्वते ये" [ सूर्यशतक, २], "प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिव" [किरातार्जुनीयम् , २।४६ ] , उद्घाटितः कपाटः । श्रापयति, स्मारयति, दास्यति, नाटयति, फाणयति, छादयति, प्रमादयति, चालयति इत्यादौ चेष्टाद्यर्थाभावे " घटादेई स्वो० " ४।२।२४ इति इस्वो न भवति । विघटयति इति तु अजन्तस्य अङन्तस्य वा “णिज् बहुलं नाम्नः" ३४१४२ इति करोत्यर्थे णिचि रूपम् । अन्ये तु ये घटादयोऽन्यत्र पठिताः तेषां योऽर्थ उपात्तः तत्रैव हस्वादिकार्य, ये तु अत्रैव पठयन्ते तेषां सामान्येनाऽनेकार्थत्वाद् इति ब्रुवते; तन्मते विघटयति इति चेष्टाभावे हस्वः स्यादेव । कमलवनोद्घाटनम् , प्रविघाटयिता, समुत्पतन् इत्यादि तु चुरादौ भासार्थस्य घटेः णिचि यमि-ज्ञा-वहिवर्जितस्य घटादिकार्यनिषेधाद् ह्रस्वाभावे रूपम् , यथा शमिणो णिचि निशामयते, चेष्टार्थस्यैव वा घअन्तस्य णिचि । इत्थं च " उन्नामिताखिलमहीधरकन्दरस्य" [ ], चौरस्योत्क्राथयति इत्यादि सिद्धम् । संक्रामयति इति तु संक्रामं करोति इति णिचि । “ शकधृष०" ५।४।९० इति तुमि घटते भोक्तुम् । अचि घटः । इह घटादौ केऽप्यत्रैवाधीताः प्रकृत्यादिकार्यभाजो न्याय्यशवप्रत्ययाश्च । अन्ये तु स्वस्थानोक्तकार्यभाजः पिचहूस्वाद्यर्थमनूयन्ते इति यथायथमुत्प्रेक्ष्यम् ॥
अथ जान्तः ॥ '१००१ क्षजुङ् गतिदानयोः' । उदिचान्ने क्षमते, चक्षजे, क्षमिता । ते क्षञ्जितः । “क्तेटो०" ५।३।१०६ इत्यः क्षक्षा । णौ क्षायति । घटादिपाठवलाद्
१. तुलना, क्षी. त. पृ. १०५ ।।