________________
२००४ ] धातुपारायणे भ्वादयः (१) णौ ञिणम्परे अनेकष्यअनव्यवधानेऽपि वा दीर्थे अक्षामि, अक्षञि, क्षाभंक्षाअम् , क्षक्षअम् । एवं कन्दि-दि-क्लन्दि-दक्षीणां ज्ञेयम् ; अत एव णौ जिणम्परे हूस्वमविकल्प्य दीर्घविकल्पः । क्षजुण कुच्छ्रजीवने [ ९।१८ ], क्षायति । कौशिकस्तु क्षजौ विपर्ययेणाधीते ॥
अथ थान्तौ ॥ '१००२ व्यथिषु भयचलनयोः' । दुःखेऽप्यन्ये । व्यथते । “ज्याव्येव्यधि०" ४।११७१ इति पूर्वस्य इत्वे विव्यथे । व्यथिता । णौ "घटादेः" ४।२।२४ इति हस्वे व्यथयति । जिणम्परे तु वा दीर्षे अव्याथि, अव्यथि, व्याव्याथम् , व्यर्थव्यथम् । “ रुच्याव्यथ्य" ५११६ इति कर्तरि निपातनाद ये अव्यथ्यः । भावे घ्यणि अव्याथ्यम् । ग्रहादित्वाद् णिनि अव्याथी । " जीण-दृक्षि० " ५।२।७२ इति इमि अव्यथनशीलः अव्यथी । " इडितो." ५।२।४४ इत्यने व्यथनः । पिचादङि व्यथा । उणादौ " श्वशुर०" ( उ०. ४२६ ) इत्युरे निपातनाद् विथुरो राक्षसः । “ नो व्यथेः " ( उ० ५५२) इति टिति इषे अव्यथिष: सूर्यः, अव्यथिषी भूः ॥
__ १००३ प्रथिषु प्रख्याने' । प्रख्यानं प्रसिद्धिः । प्रथते, पप्रथे, प्रथिता । णौ घटादित्वाद् हस्वे प्रथयति । णौ सन्वद्भावापवादे. " स्मृत्वर०" ४।११६५ इति पूर्वस्याऽतोऽत्वे अपप्रथत् । जिणम्परे तु वा दीर्धे अप्राथि, अप्रथि, प्रार्थप्राथम् , प्रथंप्रथम् । पिचादडि प्रथा । उणादौ " सृणीकास्तीक० " ( उ० ५० ) इति ईके निपातनात् पृथ्वीका एला । “सृपप्रथि०" ( उ० ३४७) इत्यमे प्रथमः । " प्रथेविट् पृथ् च" ( उ० ५२१) पृथिवी । “प्रथेलकच वा" (उ० ६४७) इति तौ प्रति चादिः, प्रत्तिः प्रथनम् । “भिपृथिभ्यामृच्च रस्य" (उ० ७३०) इत्यो पृथुः । कुत्सितादौ कपि पृथुकः ॥
__ अथ दान्ताः पञ्च ॥ १००४ प्रदिष् मर्दने' । प्रदते, मम्रदे, प्रदिता । गौ घटादित्वाद् हुस्खे म्रदयति । “स्मृदृत्त्वर०" ४।१।६५ इति सन्वद्भावापवादे पूर्वस्याऽत्वे अमम्रदत् । षिवादङि प्रदा । उणादौ मृद्वीका मृदीका चेति " मृदेर्वोऽन्तश्च वा " (उ० ४९) इति ईके मृद्गातेः । एवं मृदुः [" पृकाहृषि० " ( उ० ७२९ ) ] ॥