________________
९९९ ] धातुपारायणे भ्वादयः (१)
१५१ " गतिबोधाः " २।२।५ इत्यणिकर्तुः कर्मत्वम् । अनुस्वारेचान्नेट् , निवत्स्यति वस्तुम् । “क्षुधवसस्तेषाम् " |४|४३ इति इटि उषितः, उषितवान् , उषित्वा; अत्र " क्षुधक्लिश० " ४।३।३१ इति क्त्वः कित्वाद् " यजादि०" ४११७९ इति वृत् । " रुच्याव्यथ्य०" ५।११६ इति कर्तरि निपातनात् तव्यणि वास्तव्यः । "वाधारे० " ५१।२१ इति ध्यणि वा निपातनात् अमावस्या, अमावास्या । " अजातेः शीले" ५।१।१५४ इति णिनि "शयवासि०" ३।२।२५ इति सप्तम्या वा लुपि ग्रामवासी, ग्रामवासी । " श्रुसद०" ५।२।१ इति भृते वा परोक्षा, अनूवास; पक्षे अन्ववात्सीत् , अन्ववसत् । “तत्र वसुक्वानौ० " ५।२।२ इति क्वसौ
" घसेकस्वरा" ४।४।८२ इति इटि अनूषितवान् गुरुं शिष्यः । “संपाद् वसात् " : ५।२।६१ इति घिनणि संवसनशीलः, संवासी । एवं प्रवासी । उणादौ " तृजि०" (उ० २२१) इत्यन्ते वसन्तः । " उपसर्गाद् वसः" (उ० २३३) इति अथे आवसथः । भेषजादिट्यणि आवसथ्यम् । “ प्याधा०" ( उ० २५८) इति ने वस्नं वस्त्रम् , मूल्यं च । " ऋज्यजि०" (उ० ३८८) इति किति रे उस्रः रश्मिः, बाहुलकात् पत्वाभावः । णौ " ऋच्छिचटि० " ( उ० ३९७ ) इति अरे वासरः । “मीज्यजि० " ( उ० ४३९) इति सरे वत्सरः । “ कृगृकुटि०" ( उ० ६१९ ) इति वा णिदिः, वासिः । ङ्याम् वासी तक्षमाण्डम् । वसिः शय्या । " प्लुज्ञा० " ( उ० ६४६) इति तौ वस्तिः मेट्रोचं वस्त्रदशाः गुदं स्नेहनोप करणं च । " खल्यमि० " (उ० ६५३) इति अतौ वसतिः । “वस्यतिभ्यामातिः" (उ० ६६२ ) वसातयः राष्ट्रम् । "भृमृत" ( उ० ७१६) इति औ वसु द्रव्यम् । " वसेर्णिद् वा” ( उ० ७७४ ) इति तुनि वस्तु पदार्थः । वास्तु गृहं गृहभूमिश्च । उष इति तु उपेः “ मिथिरज्यु० " ( उ० ९७१) इति कित्यसि । वसिक्
आच्छादने [ २५९ ], वस्ते । वसूच स्तम्भे [३।८३ ], वस्यति । उणादौ । “ दम्यमि० " ( उ० २०० ) इति ते वस्तः छागः, वस्तिण अर्दने इत्यस्य वाचि । वसण स्नेहच्छेदावहरणेषु [ ९।१९४ ], वासयति ॥
" वृत् यजादिः" । वर्तिताः समापिता यजादय इत्यर्थः ॥