________________
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ९९८आत्मनेपदे " अणिगि प्राणि." ३।३।१०७ इति परस्मैपदेनापोदिते " परिमुहा०" ३।३।९४ इति पुनर्विहिते वदति चैत्रः । वादयते चैत्र मंत्रः, अत्र “गतिबोधा." २।२।५ इत्यणिकर्तुः कर्मत्वम् । फलवतोऽन्यत्र " शेषात् परस्मै" ३।३।१०० इति परस्मैपदे वादयति चैत्र मैत्रः । वदिता, बदितुम् । “ऋवर्ण०" ५।१११७ इति ध्यणि वाद्यम् । “वर्योपसर्या०" ५।११३२ इति निपातनाद् ये अवद्यम् गम् , अनुद्यम् अन्यत् । " नाम्नो वदः क्यप् च" ५।१।३५ ब्रह्मोद्या कथा । ये ब्रह्मवद्या । "खेयमृषोद्य" ५।११३८ इति निपातनात् क्यपि मृषोद्यम् । अचि वदः । "चराचर०" ४।१।१३ इति निपातनाद् वदावदः । लिहायचि श्लोकवदः । “ प्रियवशाद् वदः" ५।१।१०७ इति खे प्रियंवदः, वशंवदः । “संपरिव्यनुप्राद् वदः" ५।२।५८ इति घिनणि संवदनशीलः संवादी । एवं परिवादी । “वादेश्च णकः" ५।२।६७ इति णौ णके परिवादनशीलः परिवादकः । " यजिजपि०" ५।२।४७ इति यङन्तादूके वावदकः । घजि वादः । ग्रहादित्वाद् इटि उदितिः । क्त्वि उदित्वा । “गत्यर्थ" ३३११८ हात गतित्वे " गतिक्व०" । ३।११४२ इति समासे क्त्वो यपि अच्छोद्य । उणादौ " वदिसहिभ्यामान्यः" (उ० ३८१ ) वदान्यो दाता प्रियवाक् च । वदन्यः इति तु वदने साधुः इति साधौ ये । “भृगृ०" ( उ० ४६० ) इति णिति इत्रे कादित्रम् आतोद्यम् । “ कमिवमि०" ( उ० ६१८) इति णिदिः, वादिः वाग्मी । " मावावद्य०" (उ० ५६४) इति से वत्सः ॥
'९९९ वसं निवासे' । वसति । " यजादिवश०" ४११:७२ इति. पूर्वस्य स्वृति उवास । " यजादिवचे:०" ४।१।७९ इति स्वृति "घस्वसः" २।३।३६ इति पत्वे ऊपतुः, ऊषु: । क्ये उष्यते । " उपान्वध्यावसः" २२२२२१ इति आधारस्य कर्मत्वे ग्रामम् उपवसति, अनुवसति, अधिवसति, आवसति, अन्वादिसाहचर्याद् वासार्थस्यैव उपस्य ग्रहणम् ; तेन भोजननिवृत्त्यर्थेन उपेन योगे कर्मत्वं न भवति । यद्वा नात्र वसेः उपपूर्वस्य ग्राम आधारः, किन्तु वसेः । “ग्रामे वसन् त्रिरात्रमुपवसति " इत्युपवस्य आधारस्य त्रिरात्रस्य कर्मता स्यादेव । थवि " सृजिदृशि०" ४।४।७८ इति वा नेटि उवस्थ, उवसिथ । णौ " ईगित:" ३३९५ इति आत्मनेपदे ' अणिगि प्राणि० " ३।३।१०७ इति परस्मैपदेनापोदिते "परिमुहा०" ३।३।९४ इति फलवत्कर्तरि पुनर्विहिते वसति चत्रः, वासयते चैत्रं मैत्रः, अत्र
१. इति तु सा इति मु०॥ २. तुलना, महाभाष्य, ४४८ ॥