________________
१४८
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ९९४" तन्व्यधी० " ५।११६४ इति णे हायः । “आतो डो०" ५।१।७६ इत्यत्र हुवावर्जनात् कर्मणोऽणि स्वर्गवायः। “ हवः समाहूक्यावयौ द्यूतनाम्नोः" ५।३।४१ इत्यलि निपातनात् समाइवयः प्राणियुतम् , आह्वयः संज्ञा । “न्यभ्युपवेश्चिोत् " ५।३।४२ इत्यलि निया, अभिहवा, उपहवः । यङ्लुपि निजोहवः । “आङो युद्ध" ५।३।४३ आहवो युद्धम् , आवायः अन्यः । “आहावो निपानम् " ५।३।४४ आहूयन्ते पानाय गावो यत्रेति आहावो निपानम् । “ भावेऽनुपसर्गात् " ५।३।४५ हवः । कर्मणि पनि हुवायः । उणादौ " तीवरधीवर० " ( उ० ४४४ ) इति वरटि निपातनाद् उपवर सन्धिः ॥ ... (
अथ पान्तः ॥ .९९५ डुवपी बीजसन्ताने' । बीजानां संतानः क्षेत्र विस्तारणम् । वपते, वपति । “नेमादा०॥ २॥३७९ इति नेणत्वे प्रणिवपते । “ यजादिवश० " ४।१।७२ इति पूर्वस्य वृति आप, “ यजादिव " ४।११७९ इति वृति ऊपे । 'क्ये उप्यते । यडि वावप्यते । यङ्लुपि वावपीति, वावप्ति । " आसुयु०" ५।१२० इति यापवादे ध्यणि वाप्यम् । अचि वपः । कर्मणोऽणि. बीजवापः । अनुस्वारेचान्नेट् , वप्ता, उप्तः, उप्तवान् । डिवचात् त्रिमकि उपत्रिमम् । घनि परिवापः । भिदादित्वाद् अङि वपा मेंदः । उप्ति: अन्या । उणादौ "भापाचणि." ( उ० २९६) इति पः, वप्पः पिता । " भीवृधि" ( उ० ३८७) इति रे वप्रः केदारः । “कमिवमि" ( उ० ६१८ ) इति णिदिः, वापिः । “त्यति" (उ०.९९७ ) इति उसि वपुः ॥
अथ हान्तः ॥ ९९६ वहीं प्रापणे' । वहते, वहति । " नेईमादा०” २३१७९ इति ; नेणत्वे प्रणिवहतेः । “प्राद्वहः " ३३१०३ " परेमपश्च" ३।३।१०४ इति फल. वत्कतयपि परस्मैपदे प्रवहति, परिवहति । " यजादिवा" ४।१।७२ इति पूर्वस्य , रवृति वाह । " यजादिवचे:०" ४।११७९ इति वृति ऊहे, ऊहुः । क्ये उद्यते । यङि वावह्यते । यङ्लुपि वावहीति, वावोदि । अनुस्वारेचान्नेट् , वोढा, ऊढः, ऊढवान् । घजि प्रवाहः । “गोचरसंचर०" ५।३।१३१ इति निपातनाद् घञपवादे घे वहः वृषस्कन्धः । “वयं करणे" ५।१।३४ इति निपातनाद् ये वयं शकटम् ,
१. वप्ता तु जनकः (अ. चि ३६२२० )॥