________________
१४६
आचार्यश्रीहेमचन्द्रविरचिते [धा० ९९१
" त्यजयज०" ४।१।११८ इति ध्यणि गत्वप्रतिषेधाद् याज्यम् , अत एव वचनाद् घ्यण अपि, “ शकित कि०" ५।१।२९ इति ये यज्यम् , णके याजकः । "कर्मजा तृचा च" ३११८३ इति निषिद्धोऽपि याजकादित्वात् षष्ठीसमासः, नृपयाजकः । विपि " यजसृज० " २११८७ इति पापवादे "ऋत्विजदिश" २।११६९ इति गे ऋतौ यजति ऋत्विक् । " करणाद्यजो भृते " ५।१।१५८ इति णिनि अग्निष्टोमयाजी । “ सुयजो." ५।१।१७२ इति वनिपि यज्वा । " पूजयजः०" ५।२।२३ इति शाने यजमानः । " यजिजपि० " ५।२।४७ इति यङन्ताद् ऊके यायजनशीलो यायजूकः । " यजिस्वपि०" ५।३३८५ इति ने यज्ञः। "आस्यटि० " ५।३।९७ इति स्त्रियां भाषे क्यपि इज्या । " श्रूवादिभ्यः " ५।३।९२ इति क्तो इज्यतेऽनया इष्टिः । उणादौ " प्लुज्ञा० " ( उ० ६४६ ) इति तौ यष्टिः । " रुद्यति० " ( उ० ९९७ ) इत्युसि यजुः अच्छन्दाः श्रुतिः ॥
अथैदन्तास्त्रयः ॥ ९९२ वेंग तन्तुसन्ताने ' । गिचात् " ईगितः" ३।३।९५ इति फलवत्कर्तर्यात्मनेपदम् । अन्यत्र " शेषात् परस्म " ३।३।१०० इति परस्मैपदम् ; वयते, वयति । " वेर्वय् " ४।४।१९ इति वा वयादेशे “ यजादिवश० " ४।१।७२ इति पूर्वस्य वृति उवाय, उवयिथ । “यजादिवचे." ४११७९ इति वृति " न वयो य" ४।१।७३ इति यस्य प्रतिषेधे ऊयतुः, ऊयुः । वयादेशाभावपक्षे " वेश्यः" ४।१।७४ इति पूर्वस्य वृत्प्रतिषेधे ववौ । थवि " सृजिशि० " ४४७८ इति वा नेटि वविथ, क्वाथ । " अविति वा" ४।११७५ इति वा स्वृति द्वित्वे " वार्णात् प्राकृतं बलीयः" [ तु० न्याय० ४४ ] इति पूर्वमुवादेशे समानदीर्घ च ऊवतुः, ऊवुः; पक्षे ववतुः, ववुः । अनुस्वारेचान्नेट् , वाता, वातुम् , वातव्यम् । णो "पाशाछा०" ४।२।२० इति ये वाययति । " ज्यश्च यपि" ४१ ७६ .इति वृन्निषेधे प्रवाय, उपवाय । “य एचातः" ५।१।२८ इति ये वेयः पटः । "उपसर्गादातो०" ५।११५६ इति डे प्रवः । "तन्व्यधी०" ५।१।६४ इति णे वायः । "आतो डो०" ५।११७६ इत्यत्र वावर्जनात् कर्मणोऽणि तन्तुवायः मनि सुवामा । वनि सुवावा । क्वनिपि “यजादि०" ४।११७९ इति वृति “दीर्घमो०" ४।१।१०३ इत्यत्र वेगो वर्जनाद् दीर्घाभावे " हूस्वस्य० " ४।४।११३ इति तागमे सूत्वा [ सु+उन्या ], विचि
१. " त्यज्यजः” इति मुद्रिते सर्वासु प्रतिषु च, अत्रापि अप्रेऽपि ॥ २. " ऋत्विगदिग्” इति मुद्रिते सर्वासु प्रतिषु च, अत्रापि अग्रेऽपि ।