________________
१४४
आचार्यश्रीहेमचन्द्रविरचिते [धा० ९८८ड्याम् रोहिणी नक्षत्रम् । “ रुहेवृद्धिश्च" (उ० ५४८) इति इषे रौहिषं तृणजातिः । ण्यन्तात् " स्वरेभ्य इ." ( उ० ६०६ ) रोहि: मृगः । “दृसृरुहि०" ( उ० ८८७ ) इति इति रोहित् मृगः । "ऋशीक्रुशि०" (उ० ९०६) इति क्वनिपि रूह्वा वृक्षः ॥
अथात्मनेपदिनौ ॥ “९८९ रमि क्रीडायाम् । इदिवादात्मनेपदे रमते । “व्याङ्परे०" ३।३।१०५ इति परस्मैपदे विरमति, आरमति, परिरमति । " वोपात् " ३।३।१०६ उपरमति, उपरमते वा । संतापो मैत्रमुपरमति, उपरमते वा; अन्तर्भावितण्यर्थोऽयं
सकर्मकः । रेमे । " यमिरमि०" ४।२।५५ इति इटि सेऽन्ते च व्यरंसीत् , - व्यरंसिष्टाम् । यङि रम्यते । यलुपि रन्ति । अनुस्वारेचानेट , रन्ता, रन्तुम् ।
" भव्यगेय० " ५।११७ इति कर्तरि निपातनाये रम्यः । नन्द्याद्यने रमणः । " रम्यादिभ्यः " ५३।१२६ इति कर्तर्यनटि रमणी । “वा ज्वला" ५।११६२ इति णे रामः, रामा । अचि रमः, रमा । “शोकापनुद०" ५।१।१४३ इति निपातनात् के स्तम्बरमः हस्ती। उणादौ "पुतपित्त" (उ० २०४) इति निपातनात् सूरतो दमितो हस्ती, अन्यो वा दान्तः । “नीनूरमि०" (उ० २२७) इति किति थे स्थः । “ पथयूथ० " (उ० २३१ ) इति निपातनात् सूरथो दान्तः । " रमेस्त च" ( उ० २६४ ) इति ने रत्नम् । “कृश०" ( उ० ३२९) इति अभे रमभः प्रहर्षः । “चकिरमिविकसेरुच्चास्य " ( उ० ३९३) इति रे. रुम्रः अरुणः । रक्ष इति तु रह इति च रक्षिरह्योः असि । केचित्तु यमं उपरमे, रम क्रीडायाम् इति ऊदितौ ज्वलादौ अधीयते, तन्मते अदिचात् क्त्वि वेट् , यत्वा यमित्वा, रत्वा रमित्वा ॥
९९० पहि मर्पणे ' । मर्षण क्षमा । “पः सो० " २।३।९८ इति सत्वे इदिवादात्मनेपदे सहते । परोक्षायाम् अनादेशादित्वात् " अनादेशादे." ४।१।२४ इत्येत्वे द्वित्वाभावे च सेहे । पोपदेशत्वात् " नाम्यन्तस्था० " २।३।१५ इति षत्वे
णौ डे असीपहत् । “ असोङ० " २।३।४८ इति षत्वे परिषहते, निषहते, विषहते। - " स्तुस्वाश्चाटि नवा" २।३।४९ पर्यषहत, पर्यसहत, न्यपहत, न्यसहत, व्यपहत, व्यसहत । " असोङ० " २।३।४८ इति वर्जनात् सोङयोः षत्वाभावे परिसोढः,
१. " किलि-पिलि० " ( उ० ६०८) इत्यनेन रुहं बीज जन्मनि इत्यस्माद् धातोः इप्रत्ययेऽपि रोहिः-सस्यं जन्म च भवति ।