________________
१४२
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ९८२गोपालः । उणादौ " दृश्या०" (उ० २१० ) इति इते पलितं पाण्डुरः केशः केशपाकश्च । अभ्रादित्वाद् अः, पलितमस्यास्ति पलितः । “मृदिकन्दि०" (उ० ४६५) इति अले पललं तिलकल्कः । " ऋकृमृ०" ( उ० ४७५) इत्याले पलालम् । “शमिकमि०" ( उ० ४९९) इति बले पल्वलम् अखातसरः । पलण् रक्षणे [९।१३२] पालयति ॥
'९८३ फल' । फलति, पफाल । “तत्रपफल" ४।१।२५ इत्येत्वे द्वित्वाभावे च फेलतुः, फेलुः । फलिता, फलिष्यति । " वा ज्वला०" ५।११६२ इति णे फालः कुशिकः । फाला इव तण्डुलाः । अचि फलम् ॥
९८४ शल' । शलति, शशाल, शलिता । “वा ज्वला" ५।११६२ इति णे शालः, शाला । अचि शलं श्वाविद्रोम । उणादौ " मीणशलि." ( उ० २१) इति के शल्कः शरणम् । “शलिबलि." (उ० ३४) इत्याके शलाका । " शल्यणेणित् " (उ० ५९) इति ऊके शालूकं कुमुदादिकन्दः । " शल्यलेरुच्चातः” (उ० ३१९) इति वे शुल्वम् । “ कृशग० " ( उ० ३२९) इत्यमे शलभः । “स्था-छा--मा०" (उ० ३५७) इति ये शल्यम् । यावादित्वात् के शल्यकः । “मृदि-कन्दि०" ( उ० ४६५) इत्यले शललं श्वावित्सूची । "कमि-वमि०" ( उ० ६१८) इति णिदिः, शालिः । “ माशालि." ( उ० ७०३ ) इति ण्यन्ताद् मलौ शाल्मलिः । फलिशल्योः पूर्वमधीतयोः अपीह पाठो ज्वलादिकार्थः शलेः परस्मैपदार्थश्च ॥
९८५ हुल हिंसासंवरणयोश्व' । चकाराद् गतौ । होलति, जुहोल, होलिता । "वा ज्वला." ५११६२ इति णे होलः, पक्षे "नाम्युपान्त्य" ५११५४ इति के हुलः, हुडः । उणादौ "पृ-का-दृषि० " ( उ० ७२९) इति किदुः, हुडुः
मेषः ॥
अथ शान्तः ॥ ___ '९८६ क्रुश आह्वानरोदनयोः' । क्रोशति, चुक्रोश । " हशिटो० " ३।४।५५ इति सकि अक्षत् । अनुस्वारेचान्नेट , क्रोष्टा, आक्रोष्टा । " वा ज्वला."
१. शुल्बम् ताम्रम् इत्युणादि विवरणे ॥ २. अयं गतौ एव इति क्षीरस्वामी (क्षो. त. पृ. ११७ ) ॥