________________
९८२ ] धातुपारायणे भ्वादयः (१)
१४१ - '९७८ णल गन्धे' । गन्धः अर्दनम् । “ पाठे० " २।३।९७ इतिः नत्वे नलति । णोपदेशत्वात् “ अदुरुपसर्गा०" २३७७ इति णत्वे प्रणलति, परिणलति । ननाल, नलिता । " वा ज्वला०" ५।११६२ इति णे नालम् , नाला पद्मादीनां वृन्तम् , नाली, नाडी. प्रणालम् , प्रणाली प्रणालिका, प्रणाडिका । अचि नलम्', नलः, नडः । " आतो." ५।११७६ इति डे नलदः ॥
'९७९ बल प्राणनधान्यावरोधयोः' । प्राणनं जीवनम् , धान्यम् अवरुध्यते यत्र इति धान्यावरोध: कुमूलः । ओष्ठयादिः । बलति, बबाल । " अनादेशादे" ४।१।२४ इति एत्वे द्वित्वाभावे च बेलतुः, बेलुः, बलिता । “वा ज्वला." ५।१।६२ इति णे बालः । स्त्रियां " वयस्यनन्त्ये" राहा२१ इति उथपवादे अजादित्वाद् आपि बाला । अचि बल:, बलम् । उणादौ "दृषभृ०" (उ० २०७) इति अते बलतः कुम्लः । वलि संवरणे [११८०७] दन्त्यौष्ठयादिः । वलते, ववले । वलण प्राणने घटादिश्च इत्येके, वलयति ॥
९८० पुल महत्त्वे' । पोलति, पुपोल, पोलिता । " वा ज्वला." ५१।६२ इति णे पोलः; पक्षे “ नाम्युपान्त्य" ५।१।५४ इति के पुलः, पुलम्, विपुलम् । उणादौ " ध्रुधून्दि०" (उ० २९) इति कित्यके पुलको रोमाञ्चः । " पापुलि." (उ० ४१ ) इति किति इके पुलिकः तुच्छधान्यम् । “कल्यलि." ( उ० २४६ ) इति इन्दकि पुलिन्दः । - " वृजितुहि०" (उ० २८३) इति किति इने पुलिनम् । “ नाम्युपान्त्य०" (उ० ६०९) इति किदिः, पुलिः । " अगिविलि० " ( उ० ६६०) इत्यस्तिकि पुलस्तिः । अयं तुदादिः अपि इत्येके, पुलति । पुलण समुच्छ्राये [ ९।१२२] पोलयति ॥
९८१ कुल बन्धुसंस्त्यानयोः' । संस्त्यानं संघातः । कोलति, चुकोल, कोलिता । “ वा ज्वला०" ५।१।६२ इति णे कोलः सूकरः, कोलं बदरम् । " नाम्युपान्त्य०" ५।११५४ इति के कुलम् , नकुलः । ककोलमिति तु कचेः " पिञ्छोल० " ( उ० ४९५) इत्योले निपातनात् । उणादौ "कुलिपिलि." ( उ० ४७६ ) इति किति आले कुलालः ॥
९८२ पल ९८३ फल ९८४ शल गतौ' । पलति, पपाल, पलिता । " वा ज्वला" ५।११६२ इति णे पालः । अचि पलं मांसम् । कर्मणोऽणि
१. 'वलि संघरणे, बलत: कुशूलः' इत्युणादि विवरणे ॥