________________
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ९७२
अथ लान्ताश्चतुर्दश ॥ ९७२ चल कम्पने' । चलति, चचाल, चलिता । " वा ज्वला." ५।१।६२ इति णे चाल: । अचि चलः । “चराचर०" ४।१।१३ इति निपातनात् चलाचलः । यङ्लुपि चाचलः, चञ्चलः । कम्पने घटादित्वात् णौ ह्रस्वे चलयति शाखाम् । अन्यत्र चालयति सूत्रम् । “चालशब्दा०" ५।२।४३ इत्यने चलनशीलः चलनः । धनि चालः । चलण भृतौ [९।१३४ ] चालयति ॥ .
- +९७३ जल घात्ये' । घात्यं जडत्वम् , अतेक्ष्ण्यम् इत्यर्थः । जलति, जजाल । " वा ज्वला०" ५।१।६२ इति णे जालम् । अचि जलम् , डलयोरैक्यं जडः । व्यवस्थितविभाषत्वाद् मिन्नेऽर्थे प्रत्ययौ । घजि जालम् । घनन्तस्यापि नपुंसकत्वं लोकात् । जलण अपवारणे [९।१२० ] जालयति ॥
(९७४ टल ९७५ ट्वल वैक्लव्ये '। विक्लव एव वैक्लव्यम् । टलति, ट्वलति, टटाल, टट्वाल । " वा ज्वला०" ५।१।६२ इति णे टालः, ट्वालः । अचि टलः, वलः । टलितुम् , ट्वलितुम् ॥
'९७६ ठल स्थाने ' । “पः सो" २।३।९८ इति सत्वे स्थलति, तस्थाल, स्थलिता । " वा ज्वला०" ५११६२ इति णे स्थालम् । गौरादित्वाद्
याम् स्थाली । अचि स्थलम् । स्त्रियां "भाजगोण" २।४।३० इति याम् स्थली अकृत्रिमा, स्थला अन्या । “ विकुशमि० " २।३।२८ इति षत्वे विष्ठलम् , कुष्ठलम् , शमिष्ठलम् । "कपेर्गोत्रे" २।३।२९ कपीनां स्थलमिव स्थलमस्य कपिष्ठलः । षोपदेशत्वात् " नाम्यन्तस्था० " २।३।१५ इति षत्वे तिष्ठालयिषति । अपोपदेशोऽयमित्यन्ये ॥
__९७७ हल विलेखने ' । विलेखनं कर्षणम् । हलति, जहाल, हलिता । "वा ज्वला० " ५।११६२ इति णे हालः । हाला सुरा । अचि हलम् , हलाहलम् । उणादौ " पदिपठि० " ( उ० ६०७) इति इः, हलि:, हडिः ॥
..
१. धान्ये इति काशकृत्स्न: (क्षी. त. टि. पृ. ११६ ) ॥ २. "चलशब्दा०" इति पाठो लघुवृत्यादिषु बहुषु ग्रन्थेषु ।। ३. वैप्लव्ये इति क्षीरस्वामी (क्षी. त. टि. पृ. ११६ ) ॥ ४. हडिः काष्ठयन्त्रविशेषः (शब्दकल्पद्रुम भा. ५)॥