________________
..९७१ ] धातुपारायणे वादयः (१)
१३९
___ अथ मान्तौ ॥ ___ '९६९ टुवम् उगिरणे' । उगिरणं भुक्तस्योर्ध्वगतिः । वमति, वनाम । " अनादेशादे०" ४।१।२४ इति एत्वद्वित्वाभावयोः “न शशददवा०॥ ४॥१॥३० इति प्रतिषेधे " जभ्रम" ४।१।२६ इति वा प्रतिप्रसवे वेमतुः, ववमतुः । " वा ज्वला. " ५।११६२ इति णे "मोऽकमि०" ४३५५ इति अत्र वमेवजनात् वृद्धिप्रतिषेधाभावे वामः, अचि वमः । वमिता । “अमोऽकम्य०" ४।२।२६ इति इस्वे गौ उद्वमयति । “ज्वलवल०" ४।२।३२ इत्यनुपसर्गस्य वा हस्वे वमयति, वामयति । णौ नन्द्याधने वामनः । णके वामकः, पनि वामः, अङ्गादित्वान्मत्वर्थीये ने वामनः । “ जीणदृक्षि" ५।२।७२ इति इनि वमनशीलो वमी । विवादथुः, वमथुः । ऊदित्त्वात् क्त्वि वेद, वान्त्वा, वमित्वा । वेट्त्वात् क्तयोः नित्यमिडभावे प्राप्ते " श्वसजप० " ४।४।७५ इति वेटि वान्तः, वान्तवान्, वमितः, वमितवान् । उणादौ " कमिवमि०" (उ० ६१८) इति णिदिः, वामिः स्त्री । " इतो० " रा४।३२ इति वा ड्याम् वामी अश्वा । नायमूदिदित्यन्ये ॥
- '९७० भ्रमू चलने' । “ भासम्लास० " ३।४।७३ इति वा श्ये भ्रम्यति, भ्रमति, बभ्राम । “ जभ्रम०" ४।१।२६ इति वैत्वे भ्रमुः, वभ्रमुः । ऊदित्वात् क्वि वेट् , भ्रान्त्वा, भ्रमित्वा । वेटत्वात् क्तयोनेंट् , भ्रान्तः, भ्रान्तवान् । " वा ज्वला०" ५११६२ इति णे ज्वलादिपाठवलात् " मोऽकमि०" ४।३।५५ इति प्रतिषेधाभावे " णिति" ४३५० इति वृद्धौ भ्रामः । अचि भ्रमः । चि भ्रमिता । उणादौ "ऋच्छिचटि०” (उ० ३९७) इति अरे भ्रमरः । “तृभ्रम्य०" ( उ० ६११ ) इति इ. भृमश्च, भृमिर्वायुः । बाहुलकाद् भृमादेशाभावे भ्रमिः भ्रमः । “ भ्रमिगमि०" (उ० ८४३) इति डिदः, भ्रः । भ्रमूच अनवस्थाने [ ३३९१ ] भ्राम्यति ॥
अथ रान्तः ॥ '९७१ क्षर संचलने' । सकर्मकश्चायमकर्मकश्च । क्षरति गौड़, पयो मुश्चतीत्यर्थः । क्षरति जलं स्रवतीत्यर्थः । चक्षार, क्षरिता । “वा ज्वला०" ५।११६२ इति णे क्षारः, गौरादित्वाद् याम् क्षारी । णे ध्यणि कृतं क्वचिदित्येके । अचि क्षरः, अक्षरः ।।