________________
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ९६६सर्गादपि णे निषादः, विषादः । अचि सदः । विपि भीरुष्ठानादित्वात् षत्वे आदिषत् , उपसत् , पुष्करसत् । संपदादिक्विपि उपनिषत् । परिषीदन्त्यस्याम् इति परिषत् । ग्रहादित्वाणिनि सादी, निषादी । " दाट्वेसि०" ५।२।३६ इति रौ सादनशील: सगुः । घत्रि सादः, निषादः, विषादः । स्त्रियां " समज०" ५।३।९९ इति क्यपि निषद्या । आधारे "व्यअनाद्" ५३।१३२ इति घजि "घञ्युपसर्ग." ३।२।८६ इति दीधै प्रासादः । उणादौ "हुशमा०" ( 3० ४५१ ) इति त्रे सस्त्रं यज्ञः । " कृगश० " ( उ० ४४१ ) इति वरटि निषद्वरः पङ्कः । “ मन् " ( उ० ९११) इति मनि सम । " कमिवमि०" ( उ० ६१८) इति णिदिः, सादिः अश्वारोहः सारथिश्च । “ अस्" ( उ० ९५२ ) इत्यसि सद: सभा ॥ .
९६७ शढ़े शातने ' । शातनं तनूकरणम् । “ शदेः शिति" ३।३।४१ इत्यात्मनेपदे " श्रौति." ४।२।१०८ इति शीयादेशे शीयते । शितोऽन्यत्र परस्मैपदे शशाद । अनुस्वारेचान्नेट, शत्स्यति । लुदिचादङि अशदत् । णौ " शदिरगतौ शात् " ४।२।२३ पुष्पाणि शातयति । गतौ तु गाः शादयति । " वा ज्वला०" ५।१।६२ इति णे शादः तृणपङ्को । अचि शदः शटितः, क्षत्रियापशदः, विशदः । णौ " करणाधारे" ५।३।१२९ इत्यनटि पलाशशातनो दण्डः, पलाशशातनी यष्टिः । उणादौ " शदेरूच " ( उ० ३९४ ) इति रे शूद्रः । " तङ्कि-वङ्कि" ( उ० ६९२) इति रिः, शद्रिः वज्रः । “जनिहनि." (उ० ८०९) इति रौ तादेशे च शत्रुः ॥
अथ धान्तः ॥ ___ '९६८ बुध अवगमने' । अवगमनं ज्ञापनम् । बोधति, बुबोध, बोधिता ।
"वा ज्वला" ५।०६२ इति णे बोधः । पक्षे " नाभ्युपान्त्य" ५११५४ इति के बुधः । णौ " गतिबोधा० " २।२।५ इत्यणिकर्तुः कर्मत्वे बोधयति शिष्य धर्मम् । “ अजाते.." ५।१।१५४ इति “णिन्चावश्यका" ५।४३६ इति वा णिनि प्रतिबोधी, गम्यादित्वात् वय॑ति साधुः । पनि बोधः । उणादौ " युयुजि० " ( उ० २७७ ) इति किति आने बुधान: आचार्यः । अनुस्वारेदयमित्येके, तन्मते अभौत्सीत् , बोद्धा, राज्ञाम् बुद्धः । बुपिंच ज्ञाने [ ३।११९] बुध्यते ॥