________________
९६६ ] धातुपारायणे भ्वादयः (१) इति मनि निपातनात् णौ पाप्मा । पतण गतौ वा [९।३१२] अदन्तः, " शीश्रद्धा०" ५।२।३७ इत्यालौ पतयालुः ॥
अथ थान्तास्त्रयः सेटश्च ॥ '९६३ पथे' । पथति, पपाथ, पथिता । एदिचात् “ व्यञ्जनादे०" ४।३।४७ इति वा वृद्धेः “ न श्विजागृ०" ४३४९ इति प्रतिषेधे अपथीत् । " वा ज्वलादि०" ५।११६२ इति णे पाथः । पक्षे अचि पथः । उणादौ “पथिमन्थिभ्याम् " ( उ० ९२६) इति इनि पन्थाः ॥
'९६४ क्वथे निष्पाके'। क्वथति, चक्वाथ, क्वथिता । एदित्वात् " व्यञ्जनादे०" ४।३।४७ इति वा वृद्धेः “न विजागृ०" ४।३।४९ इति प्रतिषेधे अक्वथीत् । “ वा ज्वला०" ५।१।६२ इति णे क्वाथः । अचि क्वथः । घनि क्वाथः । " अतोऽनेकस्वरात्" ७२।६ इति मत्वर्थीयेके क्वाथिका यवागूः ॥
९६५ मथे विलोडने ' । मथति, ममाथ, मथिता । एदिचात् "व्यञ्जनादे." ४।३।४७ इति वा वृद्धेः "न विजागृ." ४४९ इति प्रतिषेधे अमथीत् । " वा ज्वला०" ५।११६२ इति णे माथः; पक्षे अचि मथः । “मथलपः" ५।२।५३ इति घिनणि प्रमथनशीलः प्रमाथी । घनि प्रमाथः अध्वपरिमाणम् । उणादौ " वाश्यसि० " ( उ० ४२३) इत्युरे मथुग । मन्था इति तु मथ्नातेः [" पथिमन्थिभ्याम्" ( उ० ९२६) इति किति इन्प्रत्यये ] ॥
___ अथ दान्तौ ॥ '९६६ षद्ल विशरणगत्यवसादनेषु'। विशरणं शटनम् , अवसादः अनुत्साहः । "श्रौति० " ४।२।१०८ इति सीदादेशे सीदति । “पः सो." २।३।९८ इति सत्वे ससाद । “सदोऽप्रतेः०" २३४४ इति षत्वे निषीदति, विषीदति, निषसाद, विषसाद । सनि निषिषत्सति विषिषत्सति, प्रतेस्तु षत्वाभावे प्रतिसीदति । " नाम्यन्तस्था०" २।३।१५ इति षत्वे सिपत्सति । लदित्वादडि आसदत् । अनुस्वारेन्वान्नेट , सन्नः, सन्त्रवान् । “गलुप० " ३।४।१२ इति गर्थि यङि सासद्यते । “वा ज्वलादि०" ५।११६२ इति णे सादः, बाहुलकात् सोप- १. गथे विलोडने इति काशकृत्स्न: ( का. धा. पृ. १०७) ॥