________________
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ९६०५।१।६२ इति णे ज्वालः, ज्वाला । पक्षे अचि ज्वलः । “भूषाक्रोधार्थ." ५।२।४२ इत्यने ज्वलनशीलो ज्वलन । उणादौ " निष्कतुरुष्को०" (उ० २६) इति के निपातनाद् उल्का । “कञ्चुकांशुक०" ( उ० ५७ ) इत्युके निपातनाद् उल्मुकम् ॥
___अथ चान्तः ॥ ' '९६१ कुच संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु' । संपर्चन मिश्रता । प्रतिष्टम्भो रोधनम् । विलेखनं कर्षणम् । कोचति, चुकोच, कोचिंता, संकुचितः । गौ क्ते संकोचितः । “ वा ज्वलादि०" ५१।६२ इति णे कोचः । " नाम्धुपान्त्य." ५।११५४ इति के कुचः । घजि ते सेन्चात् फत्वाभावे उत्कोचः, संकोचः ॥ .
अथ तान्तः ॥ - '९६२ पत्ल ९६३ पथे गतौ'। पतति, पपात, पेतुः । लुदिचादङि " श्वयत्य० ॥ ४।३।१०३ इति पप्तादेशे अपप्तत् । “नेमादा० " २।३।७९ इति नेर्णत्वे प्रणिपतति, प्रण्यपतत् , अटो धात्वादित्वात् व्यवधानाभावः । सनि " इवृध०" ४।४।४७ इति वेटू , अनिट्पक्षे " रमलभ० " ४।१।२१ इति स्वरस्यत्वे द्वित्वाभावे च पित्सति । इटि पिपतिषति । यङि " वञ्चसंस०” ४।१।५० इति पूर्वस्यान्तो नी, पनीपत्यते । भावकर्मणोरेव प्राप्तस्य ध्यणो “ भव्यगेय० " ५।११७ इति कर्तरि वोत्पत्तौ आपात्यः, पक्षे आपात्यमनेन । " वा ज्वलादि०" ५।११६२ इति णे पातो राहुः, पक्षे अचि पतः पक्षी । घजि उत्पातः, निपातः । “वेटोऽपतः" ४।४।६२ इति पतो वर्जनादिट्प्रतिषेधाभावे पतितः, पतितवान् । " उदः पचि०" ५।२।२९ इति इष्णौ उत्पतनशीलः उत्पतिष्णुः । " लषपत०" ५।२।४१ इत्युकणि प्रयातुकः । “भूषाक्रोधार्थ" ५।२।४२ इत्यने पतनः । " नीदाव" ५।२१८८ इति त्रुटि पत्त्रम् । “ विशपत० " ५४१८१ इति णमि गेहानुप्रपातमास्ते । उणादौ "शलिबलि." ( उ० ३४) इत्या पताका । " आङः पणि०" ( उ० ३९) इति इके आपतिका श्यनः । " पतितमि०" ( उ० ९८ ) इत्यङ्गे पतङ्गः पक्षी । "वीपतिपटिभ्यस्तनः " ( उ० २९२) पत्तनं पुरविशेषः । " वृगनक्षि०" ( उ० ४५६ ) इत्यत्रे पतत्रं पत्त्रम् । “पतिकुलूभ्यो णित् " ( उ० ४७९ ) इत्याले पातालम् । “ पतेः सलः " ( उ०. ५०४ ) पत्सलः प्रहारः । “कमिवमि०" (उ० ६१८ ) इति णिदिः, संपातिः गृध्रराजः । “सात्मनात्मन्" (उ० ९१६)