________________
९६० ] धातुपारायणे भ्वादयः (१)
'९५८ शृङ् शब्दकुत्सायाम् ' । तालव्यादिः । शब्दकुत्सा पायुशब्दत्वात् । शर्धते, शशृधे । द्युतायडि अशृधत् अशर्धिष्ट । " वृद्भ्यः स्यसनोः" ३३१४५ इति वात्मनेपदाभावे " न वृद्भ्यः " ४४५५ इति नेट् , शर्व्यति, शर्धिष्यते, शिशत्सति, शिशर्धिषते । ऊदित्वात् क्त्वि वेट , शृद्धवा, शर्धित्वा । वेट्त्वात् क्तयोनेंट् , शृद्धः, शृद्धवान् । घञि शर्धः, शर्धजहा माषाः । उणादौ “ डीनीवन्धि० " ( उ० ३२५) इति डिम्बे शिम्बा वीजकोशी । " नृतिशृधि० " ( उ० ८४४ ) इति किदुः, गृधूः शर्धनः ॥
९५९ कृपौड सामर्थे ' । “ऋर०॥ २॥३९९ इति लत्वे कल्पते । लत्वे चक्लुपे । धुताद्य ङि अक्लुपत् , अकल्पिष्ट । " वृद्भ्यः स्यसनोः" ३।३।४५ इति " कृपः श्वस्तन्याम् " ३।३।४६ इति च वात्मनेपदाभावे " न वृद्भ्यः " ४।४।५५ इति नेट् । आत्मनेपदे तु औदित्वात् वेट् , कल्पस्यति, कलिषष्यते, कल्प्स्यते, चिक्लप्सति, चिकल्पिषते, चिक्लप्सते, कल्प्तासि, कल्पितासे, कल्प्तासे, कल्प्तुम् , कल्पितुम् । वेट्त्वात् क्तयोर्नेट् , क्लप्तः, क्लुप्तवान् । णौ कल्पयति । " ऋदुपान्त्या०" ५।१।४१ इति अत्र कृपिवर्जनात् "शकि--तकि०" ५।१।२९ इति ये कल्प्यम् । जौ अचि कल्पः । यडि चलीक्लृप्यते । णौ ते अवकल्पितः । " व्यजनाद्" ५।३।१३२ इत्याधारे घजि क्लृप्यन्ते यस्मिन् प्राणिनां भोगोपभोगा वृद्धिहानिभ्यामिति कल्पः कालविशेषः उत्सपिण्यवसर्पिणीसमुदायः । उणादौ " तकृपि०" ( उ० १५१) इति कीटे कृपीटं हिरण्यं जलं च । कृपण अवकल्कने [९।१७९ ] कल्पयति । कृपण दौर्बल्ये [ ९।३२३ ] अदन्तः, कृपयति ॥
वृत्' । वर्तनम् वृत् , द्युतादिः २३ वृतादिः ५ चान्तर्गणी वर्तितौ समाप्तौ इत्यर्थः । वृधेः विपि वृत् , वर्धितौ पूर्णी इत्येके । ___ अथ ज्वलादयो यजादेः प्राक पल-शल-क्रुशं-रुह-रभि वर्जा: सेटश्च वर्णक्रमेण निर्दिश्यन्ते । तत्रापि पूर्वाचार्यानुरोधेन पूर्वम् ॥
• ९६० ज्वल दीप्तौ' । " शेषात् परस्मै" ३३१०० इति परस्मैपदे ज्वलति, जज्वाल, ज्वलिता । णौ घटादित्वात् इस्वे प्रज्वलयति । " ज्वलह्वल." ४।२।३२ इत्यनुपसर्गस्य वा हस्वे वलयति ज्वालयति, “ वा ज्वलादि०"
१. वृद्भ्य इति मु०॥ २. एतस्या लोके खेजडी इति प्रसिद्धिः । (नि. शे. टी. ७३ ) ॥ ३. तुलना, (क्षी. त. पृ. १०४ ) ॥