________________
१२८
आचार्यश्रीहेमचन्द्रविरचिते [धा० ९३१___+९३१ अपी ९३२ असी गत्यादानयोश्च । चकारादीप्तौ । अपते, अपति, आषे, आप, अपिता, अपित्वा ।
अथ सान्तौ सेटौ च ॥ * ९३२ असी' । असते, असति, आसे, आस । आस इत्यसतेः इति वामनः [ वामन काव्यालङ्कार, ५।२।२९] । असिता । असक् भुवि [ २१४४ ] अस्ति । असूच क्षेपणे [ ३७८ ] अस्यति ॥
९३३ दासृग् दाने' । दासते, दासति, ददासे, ददास, दासिता। क्ते दासितम् । अचि दासः । गौरादित्वाद् ड्याम् दासी । ग्रहादित्वाणिनि उद्दासी । घनि उद्दासः । " णौ दान्त" ४।४।७४ इति क्ते वा निपातनाद् दस्तः, दासित: ॥
अथ हान्तौ सेटौ च ॥ -९३४ माहृग् माने' । मानं वर्तनम् । माहते, माहति, ममाहे, ममाह, माहिता । ऋदियाद् डे न इस्त्र:, अममाहत् । अचि माहः । स्त्रियाम् माहा गौः ॥
• ९३५ गुहौग संवरणे' । “गोहः स्वरे" ४।२।४२ इत्यत्वे गृहते, गृहति, जुगृहे, जुगूह । औदिच्वाद् वेट्, गोढा, गृहिता । इडभावपक्षे “हशिटो." . ३।४।५५ इति सकि " दुहदिह०" ४।३।७४ इति वा तल्लुकि च अघुक्षत, अगूढ, अगूहिष्ट । परस्मैपदे तु सको लुगभावे अघुक्षत् , अगृहीत् । “ स्वरेऽतः" ४।३।७५ इति सकः अल्लुकि अघुक्षाताम् , अधुक्षन्त । " स्वरस्य परे०" ७।४।११० इति प्राचः परस्मिन्नपि विधौ कर्तव्ये स्वरादेशस्य स्थानिवत्वम् इष्यते, तेनात्र अल्लुका परस्मिन् अन्तः अदादेशे स्थानित्वाद् “ अनतोऽन्तो." ४।२।११४ इत्यन्न भवति । वेट्त्वात् क्तयोनेंट , गूढः गूढवान् । “ग्रहगुहश्च०" ४।४।५९ इति सनीप्रतिषेधात् जुघुक्षति । णो डे अजूगुहत् । ये तु हस्वं नेच्छन्ति तन्मते अजुगृहत् । “कृषि०" ५।१।४२ इति वा क्यपि गृह्यम् ; पक्षे ध्यणि गोह्यम् । “नाम्युपान्त्य०" ५।१५४ इति के गुहः । गिर्योषध्योः भिदादित्वाद् अङि गुहा; अन्यत्र तो गूढिः । उणादौ “विदनगगन०" (उ० २७५) इत्यने निपातनाद् गहनम् । “तीवरधीवर०" (उ० ४४४ ) इति वरटि निपातनाद् गह्वरम् ।।
१. सते असक् इति मु० ॥