________________
९३० ] धातुपारायणे भ्वादयः
१२७
'९२४ भेषग् भये' । भेषते, भेषति, बिभेषे, विभेष, भेषिता । ऋदिचाद् डे न हृस्वः, अबिभेषत् । णो भेषयति ॥
'९२५ भ्रषग् चलने च' । चकाराद् भये । श्रेषते, भ्रषति, विभ्रेषे, विश्रेष, प्रेषिता । ऋदिच्चाद् डं न इस्वः, अविभ्रषत् । णौ ऽपयति । धनि भ्रषः ॥
'९२६ पषी बाधनस्पर्शनयोः'। स्पर्शनं ग्रन्थनम् । पषते, पपति, पेषे, पपाष, पषिता । क्ते पषितम् । घनि पाषः । उणादौ “पषो णित् " (उ० १९२) इत्याणे पाषाणः । अयं स्पशीत्येके । स्पशते, स्पशति । अचि स्पशः चरः । सेयमुभयतः स्पाशा रज्जुः । स्पाशश्चान्यः । पस्पश उपोद्घातः । पषण बन्धने [ ९।१८७ ] पापयति । पषण अनुपसर्गोऽदन्तः [ ९३३५२ ] पषयति ॥
९२७ लषी कान्तौ' । कान्तिरिच्छा । " भ्रासम्लास०" ३।४।७३ इति वा श्ये अभिलष्यते, अभिलष्यति, अभिलपते, अभिलषति, लेखे, ललाष, लषिता । " लपपत०" ५।२।४१ इत्युकणि अमिलाषुकः । “भूषाक्रोधार्थ०" ५।२।४२ इत्यने अभिलषणः । " व्यपाभे" ५।२।६० इति घिनणि विलाषी, अपलाषी, अभिलाषी । घनि अभिलाषः । उणादौ " लषेः श च " ( उ० २८९) इत्युने लशुनं कन्दविशेषः ॥
'९२८ चषी भक्षणे' । चषते, चपति, चेषे, चचाष, चषिता । क्ते चषितम् । घनि चापः । उणादौ, " दृकनृ० " (उ० २७) इत्यके चषकं सरकः । “ ऋकृमृ० ” ( उ० ४७५ ) इत्याले चपालो यूपवलयः । चष हिंसायाम् [१।५१९] चषति ॥
' ९२९ छषी हिंसायाम् , । छपते, छपति, चच्छषे, चच्छाप, छषिता, छषितुम् ॥
— ९३० त्विषीं दीप्तौ' । त्वषते, त्वेषति, तित्विषे, तित्वेष । अनुस्वारेवान्नेट , त्वेष्टा, त्वेष्टुम् । " हशिटो० " ३४५५ इति सकि अत्विक्षत । " क्रुत्संपदा० " ५।३।११४ इति क्विपि विट् । उणादौ " त्वष्टक्षत० " (उ० ८६५) इति तृप्रत्यये निपातनात् त्वष्टा अर्कः । अवपूर्वो दाननिरसनयोश्चेत्येके । निरसनम् अपाकरणम् चकारात् दीप्तौ; अवत्वेषते, अवत्वेषति, ददाति, निरस्यति, दीप्यते चेत्यर्थः ॥