________________
१२६
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ९१९" कुशकुटि०" ( उ० ६१९) इति वा णिदिः, आलिः सखी, अलिर्भमरः । अलक्त इति तु अरक्तशब्दस्य लत्वे । परस्मैपदिनम् एनम् अन्ये मन्यन्ते ॥
अथ वान्तौ सेटौ च ॥ ९२० धावूग् गतिशुद्धयोः' । धावते, धावति, दधावे, दधाव, धाविता । ऊदिवात् क्त्वि वेद, धौत्वा, अत्र " अनुनासिके च०" ४।१।१०८ इति वस्य ऊटि " ऊटा" १।२।१३ इत्यौत्वम् , पक्षे धावित्वा । वेट्त्वात् क्तयोर्नेट् , धौतः, धौतवान् पादौ । कथं धावितः, धावितवान् ? सत्यपि वेट्त्वे गतौ क्योरिटूपतिषेधस्यानित्यत्वात् । णके धावकः । मनि “ अनुनासिके च०" ४।१।१०८ इत्यूटि सुधोमा । वनि “ खो:०" ४।४।१२१ इति वस्य लुकि सुधावा, विचि सुधाः । क्विप्यूटि सुधौः । तौ धौतिः । क्तेऽनिट्त्वात् "क्तेटो०" ५।३।१०६ इति अप्रत्ययो नास्ति ॥
९२१ चीग् झपीवत् ' । झपी आदानसंवरणयोर्वक्ष्यते तद्वद् अयमपि आदानसंवरणयोरित्यर्थः । चीवते, चीवति, चिचीवे, चिचीव, चीविता, ऋदित्वाद् के अचिचीवत् । अनृदिदयम् इत्येके, तन्मते डे ह्रस्वे अचीचिवत् । उणादौ "जठर०" ( उ० ४०३) इति निपातनादरे चीवरं मुनिवासः, चिनोतेर्वा वरटि दीर्घ च ॥
अथ शान्तः सेट् च ॥ । ९२२ दाग दाने ' । दाशते, दाशति, ददाशे, ददाश, दाशिता । ऋदिवाद् हे अददाशत् । “दाश्वत्-साह्वत्०" ४।१।१५ इति निपातनात् फलवकर्तर्यपि क्वसौ द्वित्वेटोरभावे दाश्वान् । घजि दाशतेऽस्म दाशः । पुरो दास्यते पुगेडाशः । दुःखेन दाश्यते दूडाशः । पृषोदरादित्वात् साधू ॥
अथ षान्ता नव त्विषींवर्जाः सेटश्च ॥ '९२३ झषी आदानसंवरणयोः' । झपते, झपति, जझषे, जझाष, झषिता । क्ते झाषितम् । अचि झपः । झप हिंसायाम् [११५१० ] झषति ।
१. अलक्तक इति तु अरक्तक० प० प्रती ॥ २. शुद्धौ इति क्षीरस्वामी [क्षी. त. पृ. ८७] ॥ ३. "नीमिकुतुचेर्दीर्घश्च" (उ० ४४३) इति सूत्रेण परटि ॥ ४. दायु दाने इति कौशिकः (क्षी त. पृ. १२७) ॥