________________
९१९ ] धातुपारायणे भ्वादयः (१) इति दे शब्दः । शबल इति तु "शमेव च वा" (उ० ४७० ) इत्यले शाम्पतेः। शपींच आक्रोशे [ ३३१४० ] शप्यते, शप्यति ।
अथ यान्तौ सेटौ च ॥ १९१७ चायग् पूजानिशामनयोः' । चायते, चायति, चचाये, चचाय । ऋदिचाद् डे न इस्वः, अचचायत् । चायिता। " चायः, कीः" ४११०८६ यडि चेकीयते । “अपाच्चायश्चिः क्तौ" ४।२।६६ अपचितिः । “ अपचितः" ४४७७ इति क्ते वा निपातनाद् अपचितः अपचायितः । उणादौ "चायः केक च" ( उ० ३६६ ) इत्यये केकयो राजा । "चायः के च" ( उ० ७७८) इति तुनि केतुः । " चायेनों हस्वश्च वा" (उ० ९५७) इत्यसि चणचाणथानम् । बाहुलकाण्णत्वम् । णत्वं नेच्छन्त्येके ॥
-९१८ व्ययी गतौ' । व्ययते, व्ययति, वव्यये; वव्याय । “व्यअनादे." ४।३।४७ इति वा वृद्धेः “न विजागृ०" ४२४९ इति प्रतिषेधाद् अव्ययीत् , व्ययिता । णौ व्याययति । अचि व्ययः । व्ययण वित्तसमुत्सर्गे [९।३३२] अदन्तः, व्यययति ॥
अथ लान्तः सेट् च ॥ “ ९१९ अली भूषणपर्याप्तिवारणेषु' । अलते, अलति, आले, आल । सनि अलिलिपते, अलिलिपति । अचि अलम् , "निषेधेऽलंखल्वो:०" ५।४।४४ इति निर्देशान्मान्तत्वं निपात्यतेऽव्ययश्चायम् । “भूषादर० " ३३११४ इति भूषायां गतित्वे अलंकृत्य कन्यामुपयच्छते, अत्र "गतिक्व०" ३११४२ इति समासे क्त्वो यप् । पर्याप्तौ अलं मल्लो मल्लाय, अत्र "शक्तार्थ " २२।६८ इति चतुर्थी । वारणे अलं कृत्वा, अत्र “निषेधेलं." ५।४।४४ इति क्त्वा । उणादौ " निष्कतुरुको" ( उ० २६) इति के निपातनाद् अलर्कः उन्मत्तः श्वा । " दृकनृ०" (उ० २७) इत्यके अलकं चूर्णकुन्तला, अलका पुरी । “क्रीकल्यलि." (उ० ३८) इतीके अलिकं ललाटम् । " स्यमिकषि०" (उ० ४६) इतीके अलीकं मिथ्या, अलीका पण्यस्त्री; व्यलीकमपराध:, व्यलीका लजा । “ कल्पलि०" (उ० २४६) इतीन्दकि अलिन्दो द्वाराग्रस्थूणा । " शल्यलेरुचातः" ( उ० ३१९) इति वे उल्वं कललम् ।
१. शमेव इति मु०॥ ... ..