________________
१२४
आचार्यश्रीहेमचन्द्रविरचिते [ था. ९१२ज्ञाने [ ३११९ ] बुध्यते । अविवक्षितकर्मत्वेन “गत्यर्था०" ५।१।११ इति कर्तरि क्ते बुद्धः ॥
अथ नान्तास्त्रयः सेटश्च ॥ '९१३ खनूगू अवदारणे' । खनते, खनति । “गमहन० " ४।२।४४ इत्यल्लुकि चखने, चख्नुः, खनिता । ऊदिचात् क्त्वि वेद, खात्वा, अत्र " आः खनि०" ४।२।६० इति आत्वम् ; खनित्वा । "ये नवा" ४२१६२ इति वाऽऽत्वे खायते, खन्यते । यडि चाखायते चकन्यते । यङ्लुपि चलनीति, चह्वन्ति । वेट्त्वात् क्तयोर्नेट् , खातः, खातवान् । “खेय." ५।१।३८ इति क्यपि निपातनात् खेयम् । " नृत्खन्० " ५।११६५ इति अकटि खनका, खनकी । "क्वचित्" ५।१११७१ इति डे खन्यते खम् , परिखाता परिखा । " लूधुसू०" ५।२८७ इती। खनन्ति तेन खनित्रम् । “खनो डडरेकेकवक, च" ५।३।१३७ आखः, आखरः, आखनिकः, आखनिकवका, आखनः, आखानः । उणादौ. " मूखन्यू." ( उ० ४४९) इति किति पटि खात्रं चौरकृतं छिद्रम् । “कुशकुटि०" (उ० ६१९) इति वा णिदिः, खानिः खनिश्च आकरः । “ पराभ्याम्०." (उ० ७४२ ) इति डित्यो आखुः ॥
• ९१४ दानी अवखण्डने' । आर्जवे " शान्दान्" ३४७ इति सनि पूर्वस्येतो दीर्घत्वे च दीदांसते, दीदांसति । अर्थान्तरे तु सनोऽभावे प्रत्ययान्तराण्यपि भवन्ति ।।
'९१५ शानी तेजने' । निशाने "शान्दान" ३।४७ इति सनि पूर्वस्येतो दीर्घत्वे च शीशांसते, शीशांसति शस्त्रम् । अर्थान्तरे तु सनोऽभावे प्रत्ययान्तराण्यपि ॥
अथ पान्तोऽनिट् च ॥ ९१६ शपी आक्रोशे' । आक्रोशो विरुद्धानुध्यानम् । शपते, शपति । अनेकार्थत्वादुपलम्भनेऽपि, “शप उपलम्भने " ३।३।३५ इत्यात्मनेपदे चैत्राय शपते, अत्र " श्लाघहनुस्था० " २२२१६० इति चतुर्थी । शेपे, शशाप रिपुम् । यडि शाशप्यते । यङ्लुपि शासपीति, शासप्ति । अनुस्वारेचाट, शप्ता, शप्तुम् । " शकितकि०" ५।१।२९ इति ध्यणापवादे ये शप्यः । घनि शापः । उणादौ " भृशीशपि०" ( उ० २३२) इति अथे शपथः । "शाशपि." ( उ० २३७ )