SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ९१२ ] धातुपारायणे भ्वादयः (१) प्रणेदते, प्रणेदति । निद्यते, निनिदे, निनेद, नेदिता, नेदितुम् । ऋदिचाद् डे अनिनेदत् ॥ '९०६ णेग' । “पाठे० " २६३९७ इति नत्वे नेदते, नेदति, नेद्यते । णोपदेशत्वाद् “ अदुरुपसर्गा० " २१३७७ इति णत्वे प्रणेदते, प्रणेदति, निनेदे, निनेद, नेदिता । क्ते नेदितम् । ऋदियाद् डे अनिनेदत् ॥ ९०७ मिग ९०८ मेदृग् मेधासियोः' । मेदते, मेदति, मियते, मिमिदे, मिमेद, मेदिता, क्ते मिदितः । ऋदिचाद् डे अमिमेदत् ॥ ९०८ मेग्' । मेदते, मेदति, मेद्यते, मिमिदे, मिमेद, मेदिता, ते मेदितः । ऋदित्वाद् डे अमिमेदत् । जिमिदाङ् स्नेहने [१९४४] मेदते । निमिदाच स्नेहने [ ३।३७] मेयति । मिदुण् स्नेहने [ ९९० ] मिन्दयति ।। अथ धान्ताश्चत्वारः सेटश्च ॥ १९०९ मेधृग् संगमे च' । चकारान्मेधाहिंसयोः । मेधते, मेधति, मेध्यते, मिमिधे, मिमेध, मेधिता, क्ते मेधितः । ऋदिचाद् उ अमिमेधत् । “क्तेटो." ५।३।१०६ इत्यः, मेधा । ध्यणि मेध्यम् । “कर्मणोऽ" ५।११७२ इत्यणि अश्वमेधः । “अजातेः०" ५।१।१५४ इति णिनि गृहमेधी। उणादौ "पदिपठि०" (उ० ६०७ ) इति इ., मेधिः ॥ __ +९१० शृधून ९११ मृधूग उन्दे' । उन्दः क्लेदनम् । शृधू तालव्यादिः, शर्धते, शर्धति, शशृधे, शशध, शर्धिता । ऊदिचात् क्त्वि वेट् , शृद्धा, शर्धिचा । वेट्त्वात् क्तयोर्नेट , शृद्धः, शृद्धवान् । शृङ् शब्दकुत्सायाम् [१९५८ ] शर्धते ।। ____ ९११ मृग' । मर्धते, मति, ममृधे, ममध, मर्धिता । ऊदियात् वित्व वेट्, मृवा, मर्धित्वा, वेटत्त्वात् क्तयोर्नेट् , मृद्धः, मृद्धवान् । “नाम्युपान्त्य०" ५।१५४ इति के मृधं रणः ॥ ___ ९१२ बुधृग् बोधने ' । बोधते, बोधति, बुबुधे, बुबोध, बोधिता । ऋदिचाद् वाऽङि अबुधत् , अबोधीत् । आत्मनेपदे तु अडोऽसत्वे अबोधिष्ट, क्ते बुधितः। नायमूदिदित्येके। बुध अवगमने [११९६८] ज्वलादिः, बोधति। "वा ज्वलादि०" ५५११६२ इति णे बोधः । " नाम्युपान्त्य०" ५११५४ इति के बुधः । बुधिच
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy