________________
१२१
८९९ ] धातुपारायणे भ्वादयः (१) आत्मनेपदे च रज्यते वस्त्रं स्वयमेव । संयोगान्तत्वाद् अवित्परोक्षाया अपि “ इन्ध्यसंयोगात्" ४।३।२१ इति कित्त्वाभावे नलोपाभावाद् ररखे, ररज । अनुस्वारेचान्नेट् , रक्ता, रक्तुम् । “णी मृगरमणे" ४।२।५१ इति नलुकि “कगेवनू० " ४।२।२५ इति ह्रस्वे च रजयति मृगं व्याधः । मृगरमणादन्यत्र नलोपाभावे रअयति नटः । केचित्तु अन्यत्रापि नलुकमिच्छन्ति “राजर्षिकल्पो रजयति मनुष्यान् ।" " नृत्खन्०" ५।११६५ इत्यकटि रजकः शिल्पी । “युजभुज. " ५।२५० इति घिनणि रक्षनशीलो रागी। “घनिभावकरणे" ४।२।५२ इति नलुकि रअनं रागः । “ व्यअनाद् घञ्" ५।३।१३२ इति करणे पनि रागः । आधारे पनि रङ्गो नृत्तस्थानम् । “ऋवर्ण" ५।१।१७ इति ध्यणि रङगयः । उणादौ " पृषिरजि० " ( उ० २०८) इति किति अते रजतम् । “ तुदादिवृजि." (उ० २७३) इति किति अने रजनम् हरिद्रा, महारजनं कुसुम्भम् । गौरादित्वाद् याम् रजनी । “रजेः कित्" (उ० ६८१) इत्यनौ रजनिः रात्रिः । "मिथिरज्युषि०" ( उ० ९७१ ) इति कित्यसि रजः । रजींच रागे [ ३३१३९] रज्यते, रज्यति ॥
अथ टान्तः सेट च ॥ ' ८९७ रेदृग् परिभाषणयाचनयोः' । रेटते, रेटति, रिरेटे, रिरेट, रेटिता, रेटितुम् । ते रेटितम् । ऋदित्वाद् डे न इस्वः, अरिरेटत् ॥
__ अथ णान्तः सेट् ॥ . '८९८ वेग् गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु' । वादित्रस्य वाद्यभाण्डस्य वादनाय ग्रहणं वादित्रग्रहणम् । वेणते, वेणति, विवेणे, विवेण, वेणिता, वेणितुम् । ऋदिचाद् ङ न हूस्वः, अविवेणत् । अचि वेणः, णके स्त्रियाम् वेणिका । उणादौ " इणुर्विशा०" ( उ० १८२) इति णे वेण्णा नाम नदी। वीणेति तु " घृवीह्वा." (उ० १८३) इति किति णे वेतेः । वेणिरित्यपि "कावावी." ( उ० ६३४) इति णावस्यैव ॥
अथ तान्तः सेट् ॥ '८९९ चतेग याचने' । चतते, चतति, चेते, चचात, चतिता, चतितम् । एदिवाद् “ व्यञ्जनादे० " ४।३।४७ इति वा वृद्धः “ न विजागृ० " ४।३।४९ इति प्रतिषेधे अचतीत् । ते चतितम् । उणादौ " कृ-ग-मृ" ( उ० ४४१ )