SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १२० आचार्यश्रीहेमचन्द्रविरचिते [ धा० ८९३अथ जान्ताश्चत्वारः तत्र आद्यौ सेटौ अन्त्यौ त्वनिटौ ॥ '८९३ राजृग् ८९४ टुभ्राजि दीप्तौ' । राजते, राजति । " भ्रम० " ४।१।२६ इति वा स्वरस्य एत्वे द्वित्वाभावे च रेजे, राजे, रेजुः, राजुः । राजिता । ऋदिचाद् अरराजत् । विपि सम्राट् , विराट् । उणादौ " शीभी." ( उ० ७१) इत्यानके राजानकः । " धाग्राजि०" (उ० ३७९) इत्यन्ये राजन्यः। त्रटि राष्ट्रम् । " उक्षितक्ष्य० " ( उ० ९००) इत्यनि राजा । '८९४ दुभ्राजि' इदिचाद् आत्मनेपदे भ्राजते । " भ्रम०" ४।१।२६ इति वा स्वरस्य एत्वे द्वित्वाभावे च भेजे, बभ्राजे, भ्राजिता । णौ डे " भ्राजभास" ४।२।३६ इति वा ह्रस्वे अविभ्रजत् , अबभ्राजत् । विचादथुः, भ्राजथुः । विचमेके नेच्छन्ति । भ्राजेः आत्मनेपदिनोऽपि पुनरिह पाठः राजसाहचर्यप्रदर्शनार्थः, तेन " यजसृज० " २।११८७ इति अत्रास्यैव ग्रहणात् षत्वे यङ्लुपि वाभ्राष्टि, पूर्वस्य तु धातोगत्वे वाभ्राक्ति, ट्विच्चायं तेनास्य भ्राजथुः, पूर्वस्य तु भ्राज इति रूपम् । यद्येवं पत्वमेव विकल्प्यतां किं पुनः पाठेन ? सत्यम् , अस्यात्मनेपदाव्यमिचारोपदर्शनद्वारा अन्येषां यथा दर्शनमात्मनेपदानित्यत्वज्ञापनार्थः पुनः पाठः, तेन लभते, लभति, सेवते, सेवति, 'श्रोतारमुपलभति न प्रशंसितारम्', ' स्वाधीने विभवेऽप्यहो ! नरपति सेवन्ति किं मानिनः ?' इत्यादयः प्रयोगाः साधव इति ॥ ' ८९५ भजी सेवायाम् ' । भजते, भजति । "तृत्रप० " ४।१।२५ इत्येत्वे द्वित्वा भावे च भेजे, भेजुः । यङि बाभज्यते, बाभजीति, बाभक्ति । अनुस्वारेत्वान्नेट भक्ता, भक्तुम् । " श्लिष०" ५।१।९ इति वा कर्तरि क्ते विभक्ता भ्रातगे रिक्थम् , पक्षे कर्मणि क्ते विभक्तं धनं तैः । भावे विभक्तं तैः । "शकितकि०" ५।१।२९ इति ये भज्यम् । “बहुलम" ५।०२ इति ध्यणि भाग्यम् । “भजोविण" ५।१।१४६ अर्धभाक् । “ युजभुज. " ५।२५० इति धिनणि भजनशीलो भागी. पनि भागः । “ गोचर०" ५।३।१३१ इति निपातनात् करणाधारयोघजपवादे घे भगः, तो भक्तिः ॥ ८९६ रक्षी रागे'। " अकविनोश्च० " ४।२।५० इति नस्य लुकि रजते, रजति । “ कुपिरजे" ३।४।७४ इति कर्मकर्तरि वा श्ये परस्मैपदे च रजति वस्त्रं रजकः, रज्यति वस्त्रं स्वयमेव पक्षे “एक धातौ० ३४८६ इतिः क्ये १. विशेषार्थिना द्र. 'आत्मनेपदमनित्यम्'-न्या० ३७ ।। २. पाठः पुन: इति भु० ।।
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy