________________
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ८८७'८८७ धंग धारणे' । धरते धरति । अनुस्वारेवान्नेद, धर्ता, धतुम् । “ आयु. धादिभ्यो." ५।१।९४ इत्यचि वज्रधरः, चक्रधरः । दण्डादेस्तु “कर्मणोऽण " ५।१।७२ इत्यणि दण्डधारः, सूत्रधारः । धृङ् अविध्वंसने (११६०२ ) धरते । " ,त् स्थाने" (५।१५३) ध्रियते । चुरादेशकृतिगणत्वात् धारयति ॥
___ ८८८ डुकंग करणे' । " कृगतनादेशः" ३।४१८३ कुरुते, करोति । फलवकर्तयपि “परानो: कृगः" ३।३।१०१ इति परस्मैपदे पराकरोति, अनुकरोति । तनादिषु पाठम् अकृत्वा अस्य पाठः " तन्भ्यो वा०" ४।३।६८ इति सिचो लुग्विकल्पाभावार्थः, तेन अकृत, अकृथाः इत्यत्र "धुड्डूस्वात्" ४।३।७० इति नित्यमेव सिजलुक भवति, शवर्थश्च; तेन करते, करति इत्यत्र “कर्तर्यनद्यः० " ३।४।७१ इति शवपि भवति । चक्रे, चकार । अनुस्वारेन्वान्नेट, कर्ता, कर्तुम् । ड्वित्वात् त्रिम, कृत्रिमम् । “गन्धना." ३।३।७६ इत्यात्मनेपदे उत्कुरुते । “अधेः प्रसहने" ३।३।७७ अधिकुरुते । “वेः कुगः०" ३।३।८५ इत्यात्मनेपदे कोष्टा विकुरुते स्वगन् , विकुर्वते सैन्धवाः । णौ “मिथ्याकूगो." ३।३।९३ इत्यात्मनेपदे पदं मिथ्या कारयते, स्वरादिदोषदुष्टमसकृत् उच्चारयति इत्यर्थः । “कृगो यि च" ४।२।८८ इत्युलोपे कुर्यात् , कुर्वः, कुर्मः । एषु " कुरुच्छरः " २१६६ इति प्रतिषेधात् “ भ्वादे० ' २।११६३ इति दीपों न भवति । " हनृतः०" ४।४।४९ इतीटि करिष्यते, करिष्यति । " स्क्रसृवृ०" ४।४।८१ इतीटि संचस्करिव, संचस्करिम । अत्र “संपरे:०" ४।४।९१ इति स्सट् , " स्कच्छतो." ४।३।८ इति गुणश्च । “ उपाद् भूषा०" ४।४।९२ इति स्सटि एधोदकस्योपस्कुरुते, अत्र " कृगः प्रतियत्ने" २।२।१२ इति कर्मणो वा कर्मत्वे " शेषे” २।२।८१ इति षष्ठी । " हुक्रोनवा " २।२।८ इति अणिकर्तुः णो वा
२. अत्रेदमवधेयम्-प्रायेण सर्व एष प्राचीना देव-पाल्य कीर्ति-हेमचन्द्र-दशपाधुणादिवृत्तिकारादयः कृशं भ्वादौ पठन्ति । अस्य भ्वादिस्थस्यैव प्रयोगा: पालि-प्राकृतभाषयो रुपलभ्यन्ते । हिन्दी भाषायामपि 'करता है' इति अस्यैवाऽपभ्रंश न तु करोते: । एतेन कृतो भ्वादिष्वविगीत एव पाठः । सायणेन 'उपो षु शणुहि' ( ऋ० १८०१) मन्त्रव्याख्याने धातुवृत्तौ (पृष्ठ १६३) चास्य महता प्रपञ्चन भ्वादित्वं निराकृतम् । ये च तत्र हेतवो निर्दिष्टास्ते सर्वे हेत्वाभासा एव । भट्टोजिदीक्षितादयः सायणमेवानुययुः । वस्तुतः कृतो भ्वादावेव पाठः, न तु तनादौ । अत एव पाणिनिना तिनादिकृभ्यः उ:' (३३१७९) सूत्रे तनादिभ्यः पृथक् कृजः पाठः कृतः । सति तनादौ, कृञः पृथक् पाठोऽनुचित एव । कदाचिदुत्तरकालीनैरयं तनादिषु प्रक्षिप्तः स्यात् । 'तनादिकृभ्यः उः" इति सूत्रस्थमहाभाष्याच्चैतत्प्रतीयते यत्पतञ्जलेः प्रागेवास्य धातो: तनादिषु प्रक्षेपो बभूव ।
(क्षी. त. टि. पृ. १३०) ।।