________________
८८६ ] धातुपारायणे भ्वादयः (१)
इत्यचि पुष्पाहरो विद्याधरः । “दृति-नाथात् पशाविः" ५।११९७ दृतिहरिः नाथहरिः पशुः । " न्यायाबाया." ५।३।१३४ इति घापवादे पनि संहारः, अबहारः । उगादौ
"कुशिक-हृदिक०" (उ० ४५) इति इके निपातनाद् हृदिको यादवः । "हृवृहि०" (उ०१९४) इतीणे हरिणः । “दृश्या०" (उ० २१०) इति इते हरितः । “गयहृदया." (उ० ३७०) इति अये निपातनाद् हृदयम् । “ हिरण्य० " ( उ० ३८०) इति अन्ये निपातनाद् हिरण्यम् । " स्वरेभ्य इ." ( उ० ६०६) हरिः । " नीवीप्रहस्यो डित्" ( उ० ६१६) प्रहिः कूपः । " कह०" (उ० ७७२) इति एणौ हरेणुर्गन्धद्रव्यम् । “ हृसृरुहि० " ( उ० ८८७) इति इति हरित दिक् । " हृजनिभ्यामिमन् " ( उ० ९१७) हरिमा मृत्युः । " सृहृभृ०" ( उ० ९१८) इति ईमनि हरीमा वायुः ॥
. '८८६ भंग भरणे'। भरते, भरति । अनुस्वारेवान्नेट् , भर्ता, भर्तम । तीर्थस्य भर्ता तीर्थभर्ता, “कर्मजा तृचा च" ३३११८३ इति प्रतिषिद्धोऽपि याजकादित्वात् षष्ठीसमासः । “ हनृतः स्यस्य " ४।४।४९ इतीटि मरिष्यते, भरिष्यति । सनि "इवृध०" ४।४।४७ इति वेटि बुभूपति, विभरिषति । भृतः, भृतवान् । घजि भारः । भरं इति तु भृणातेरलि । “भृगोऽसंज्ञायाम्" ५।११४५ इति क्यपि भत्यः, संज्ञायां तु "ऋवर्ण०" ५।१।१७ इति ध्यणि भार्यों नाम क्षत्रियः । भार्या वधूः । "कुक्ष्यात्मोदराद् भृगः खिः " ५।१।९० कुक्षिम्भरिः, आत्मम्भरिः, उदरम्भरिः । "भृवृजि." ५।११११२ इति खे विश्वंभरा भूः । क्विपि विदभृत् । “अजातेः शीले" ५१।१५४ इति णिनि मालभारी, अत्र " मालेपीके० "२।४।१०२ इति पूर्वपदस्य हस्वः । एवम् उत्पलमालभारी । उणादौ " दृपृभृ०" ( उ० २०७) इत्यते भरतः । “अवभृ०" (उ० २२९) इति किति थे अवभृथो यज्ञान्तः । “ कृवभृ० " (उ० ५२८) किति शे भृशम् । " भृमृत" (उ० ७१६) इत्युः, भरुः देशः, समुद्रश्च । “ ऋतृशमृत्रादिभ्यो गे लश्च" ( उ० ७२७) इति णिदुः, भालुः इन्द्रः । " हनिया०" (उ० ७३३) इति कित्यौ द्वित्दे च बभ्रुनकुलः । भृगुः इति तु भ्रस्जेः " स्पशिभ्रस्जेः स्लुक च" (उ० ७३१) इति कित्यौ । “भृपणिभ्यामिज् भुरवणौ च" (उ० ८७५) भुरिक् भुरिजौ बाहुः । "दिव्यवि" ( उ० १४२ ) इत्यटे भरटः उडुपः । “शाशि-शंसि०" (उ० ८५७) इति तः, भर्ता पतिः । टुडुभंगक पोषणे च (२१८२) विति ।। ' १ सोमयज्ञानां समाप्तौ क्रियमाणं स्नानं अवभृथशब्देन उच्यते,
(क्षी. त. पृ. १२९, टि०)॥