________________
११४
आचार्यश्रीहेमचन्द्रविरचिते [ धा० ८८४२॥३७१ इति णत्वे विपि ग्रामणीः, अग्रणीः । “असरूपोपवादे०" ५।१।१६ इत्यणि ग्रामनाय इत्यपि। "नीदाव०" ५।२।८८ इति करणे वटि नेत्रम् । "नियश्चानुपसर्गा." ५३।६० इति वा पनि नायः, पक्षेलि नयः । “वोदः" ५।३।६१ उन्नायः, उन्नयः । " अवात् " ५।३।६२ अवनायः । " परे ते " ५।३।६३ परिणायेन शारीन् हन्ति । “ पुनाम्नि घः" ५।३।१३० नीयतेऽनेनेति नयः । " आनायो जालम्" ५।३।१३६ इति पनि आनायो मृगाणाम् । उणादौ " नीनूरमि० " ( उ० २२७ ) इति किति थे नीथं जलम् , सुनीथो नाम राजा । “नियो वा" (उ० ३०२) इति वा किति पे नीपः कदम्बः । कित्त्वाभावे नेपः पुरोधाः, नेपं जलं यानं च । " ऋज्यजि०" (उ० ३८८) इति किति रे नीरम् । “नीसा०" (उ० ६८७) इति मौ नेमिः चक्रधारा । " नियो डित्" (उ० ८५४) इति ऋः, ना, नरौ । " हपूगोत्री०" (उ० ८६३) इति तः उन्नेता ऋत्विक । “नियः पादिः" (उ० ८६४) नेष्टा ऋत्विक् ॥
अथ ऋदन्ताश्चत्वारोऽनिटश्च ॥ ८८५ हग हरणे' ।हरते, हरति, जहे, जहार । " विनिमेय. " २।२।१६ इति कर्मणो वा कर्मत्वे " शेषे " २।२८१ इति षष्ठ्यां शतस्य व्यवहरति, शतं व्यवहरति । अनुस्वारेवान्नेट , हर्ता, हर्तुम् । “ हनृतः स्यस्य" ४।४।४९ इतीटि हरिध्यति । "हगो गतताच्छील्ये" ३।३।३८ इत्यात्मनेपदे पेटकमश्वा अनुहरन्ते । हरतिः अयं सकर्मकश्च अकर्मकश्च तथा अभ्यवहारार्थश्व इतरार्थश्च दृश्यते, यदा अकर्मकश्व अभ्यवहारार्थश्च भवति तदा णौ “गतिबोधा०" २।२।५ इत्यणिकर्तुनित्यं प्राप्त कर्मत्वं " हक्रोर्नवा" ।।८ इति विकल्प्यते, हरति मैत्रः, हास्यति मैत्रं मेत्रेण वा चैत्रः, अभ्यवहरति मैत्र:, अभ्यवहारयति मैत्र मैत्रेण वा चैत्रः । यदा सकर्मको भवति तदा चौर्यार्थत्वाद् अनभ्यवहारार्थश्च, तदा कर्मत्वमप्राप्तं " हक्रोर्नवा " २२२१८ इति विभाष्यते, हरति द्रव्यं चौरः, हास्यति द्रव्यं चौरं चौरेण वा चैत्रः । यदा तु सकर्मकोऽपि देशान्तरप्रापणार्थः तदा गत्यर्थत्वाद् "गतिबोधा०" २।२।५ इति नित्यं प्राप्तं कर्मत्वं विभाष्यते, हरति भारं चैत्रः, हारयति भारं चैत्रं चैत्रेण वा मैत्रः, देशान्तरं प्रापयतीत्यर्थः । ग्रहादित्वाणिनि व्याहारी, संव्याहारी । " अवहसासंस्रो" ५।१।६३ इति णे अवहारो ग्राहः । " हृगो क्योऽनुद्यमे " ५।१।९५ इत्यचि अस्थिहरः श्वा, मनोहरः । उद्यमे तु अणेव, मारहारः । “आङ शीले " ५।११९६
१ 'हुपुग्गो' इत्युणादिसूत्रे ॥