________________
११०
आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे गर्दिः । घञि गर्हः। क्विपि “रात्सः" २।१।९०। इति नियमात् संयोगान्तलोपाभावे सुघर्ट् । गर्हण् विनिन्दने युजादित्वाद् वा णिचि गर्हयति गर्हति ॥ गल्हि । गल्हते जगल्हे गल्हिता। यङि जागल्ह्यते । मन्नादिषु पूर्ववत् ।।
८६२ वहिं ८६३ वल्हि प्राधान्ये । वर्हते वर्हे वर्हिता । अचि वर्हः प्रधानभूतः । मुनि5 प्रवर्हः ॥ वल्हि । वल्हते ववल्हे वलिहता । चुरादौ भासार्थों वर्हयति वल्हयति ॥ ।
८६४ बर्हि ८६५ बल्हि परिभाषण-हिंसा-ऽऽच्छादनेषु । दानेऽप्यन्ये । ओष्ठ्यादी एतौ, पूर्वी तु दन्तौष्ठ्यादी । बर्हते बब. बर्हिता । घनि बर्हः । प्रज्ञाद्यणि बाहः । “फल बच्चि-"७।२।१३। इति इने बर्हिणः॥ बल्हि। बल्हते बबल्हे बलिहता। "हाऽन्तस्था- २।१।८१।
इत्यद्यतन्या धस्य वा ढत्वे अवल्हिढ्द्वम् अवल्हिध्वम् । उणादौ "सृणीका-" (उ० ५०) इति इके 10 निपातनात् बाल्हीकः। “पदि-पठि-" (उ० ६०७) इति इः, बल्हिः । बाहुलकाद्दीधै बाल्हयः । खार्थिके के बाल्हिका देशः क्षत्रियाश्च ॥
८६६ वेहङ् ८६७ जेहङ् ८६८ वाहृङ् प्रयत्ने । वेहते विवेहे वेहिता : ऋदित्त्वाद् डे न हखः, अविवेहत् । वेहदिति तु हेन्तेः, विहन्ति गर्भमिति वेहद् गर्भनी गौः, “संश्चद्वेहत्साक्षादादयः" __ (उ० ८८२) इति निपातनात् ॥ जेहङ् । जेहते जिजेहे जेहिता । ऋदित्त्वाद् डे अजिजेहत् ।। 15 वाहङ् । वाहते ववाहे वाहिता । ऋदित्त्वाद् उ अववाहत् । "क्षुब्ध-विरिब्ध-" ४।४।७०। इति ते निपातनादिडभाव वाढं भृशम् । वाहितमन्यत् ॥
८६९ द्राहङ् निक्षेपे । निद्राक्षेपे इत्येके । द्राहते दद्राहे द्राहिता। ऋदित्त्वाद् डे अदद्राहत् ॥
८७० अहि तर्के । तर्क उत्प्रेक्षा । उहते । “उपसर्गादस्य-"३।३।२५। इति वाऽऽत्मनेपदे 20 समूहति समूहते । “उपसर्गादूहो-" ४।३।१०६। इति क्ङिति यि हस्वे अभ्युह्यते समुह्यते । “गुरु
नाम्यादे:-" ३।४।४८। इति परोक्षाया आमि ऊहाञ्चके । सनि "स्वरादेः-" ४।१।४। इति हेर्द्वित्वे ऊजिहिषते । क्ते ऊहितम् । “क्तेटो-'" ५।३।०६। इति अः, ऊहा। घनि ऊहः ।
८७१ गाहौङ् विलोडने । विलोडनं परिमलनम् । गाहते जगाहे । औदित्त्वाद् वेट्, गाढा गाहिता । वेट्त्वात् क्तयोनेंट्, गाढः गाढवान् । अचि गाहः। स्त्रियां गौरादित्वाद् ड्याम् गाही। 25 घनि अवगाहः ।।
८७२ ग्लहौङ् ग्रहणे । ग्लहते जग्लहे। औदित्त्वाद् वेट् , ग्लाढा, अत्र "ढस्तड्डे" १।३।४२। १पाणिनीयाः ॥ २ विपूर्वात् हन्तेर्डित्कत् वेश्च गुणः, वेहत् गर्भध्नी अप्रजा स्त्री अनड्वांश्च ॥ ३ क्रियाविशेषणमेवैतत् , यद्ययं क्रियाविशेषगं तत्कथं बाढविक्रमा इत्यत्र विक्रमाभिधायी बाढशब्द इति चेत्, उच्यते। नात्र बाढशब्दो विक्रमाभिधायी किन्तु विस्पष्टपटुवत् बाढशब्देन क्रियाविशेषणेन सह समास इति ॥४ पाणिनीयाः॥ ५ वितर्के । । वितर्कः सम्भावनम्, इति पाणिनीयाः। कथं तर्हि 'अनुक्तमप्यूहति पण्डितो जनः' इत्यत्र परस्मैपदम् ? अत्राहुः-अनुदात्तत्वलक्षणस्य तङो अनित्यत्वान्न दोष इति तत्त्वबोधिन्यां सिद्धान्तकौ० पृ० ३१॥