________________
आत्मनेधातवः ८४३-८६१] स्वोपझं धातुपारायणम्। प्रणासते। ननासे नासिता । ऋदित्त्वाद् उ अननासत् । अचि नासा । णके नासिका ॥
८५१ णसि कौटिल्ये । “पाठे धात्वादेः-" २।३।९७। इति णस्य नत्वे णोपदेशत्वाद् "अदुरुपसर्गा-" २।३।७७। इति णत्वे प्रणसते । नेसे नसिता । णके नासिका । विचि किपि वा सौ भ्वादित्वाद् “अभ्वादे:-" १।४।९०। इति दीर्घाभावे सुनः । कर्मणि पाजे नासो घ्राणम् । उणादौ "नसि-वसि-" (उ० ४०) इति णिदिकः, नासिका ॥
८५२ भ्यसि भये । भ्यसते बभ्यसे भ्यसिता। “भेष" इति चन्द्रः। मेषते ॥
८५३ आङ शसुङ् इच्छायाम् । आङ इति आङः पर एवायं प्रयुज्यते नान्योपसर्गात् नापि केवल इति ज्ञापनार्थम् । उदित्त्वाद् ने आशंसते आशंस्यते आशशंसे। ते आशंसितम् । "क्तेटो-"५।३।१०६॥ इति अः, आशंसा । “सन्-भिक्षा-" ५।२।३३। इति उः, आशंसुः । प्रशस्यते शस्त्रम् , प्रशंसेति तु शंसू स्तुतावित्यस्य ॥
10 . ८५४ प्रसूङ् ८५५ ग्लसूङ् अदने। ग्रसते जनसे ग्रसिता। यङि जाग्रस्यते। यङ्लुपि जाग्रसीति जाग्रस्ति । ऊदित्त्वात् क्त्वि वेट, अस्त्वा ग्रसित्वा । वेट्त्वात् क्तयोर्नेट, ग्रस्तः प्रस्तवान् । घनि ग्रासः । उणादौ “प्रसि-हाग्भ्यां ग्रा-जिहौ च" (उ०३३९) इति मे ग्रामः। “रुक्म-ग्रीष्म-" (उ० ३४६) इति मे निपातनात् ग्रीष्मः ॥ ग्लसूङ् । ग्लसते जग्लसे ग्लसिता। ऊदित्त्वात् क्त्वि वेट्, ग्लस्त्वा ग्लसित्वा । वेट्त्वात् क्तयोर्नेट्, ग्लस्तः ग्लस्तवान् । घञि ग्लासः ॥ 15
८५६ घसुङ् करणे । उदित्त्वाद् ने घंसते जघंसे घंसिता । मूर्धन्यान्तोऽयमिति चन्द्रः घंषते ॥ अथ हान्ता अष्टादश सेटश्च
८५७ ईहि चेष्टायाम् । ईहते । “गुरुनाम्यादेः-" ३।४।४८। इति परोक्षाया आमि ईहाचक्रे । ईहिता । घनि ईहः । स्त्रियां "क्तेटो-" ५/३।१०६॥ इति अः, ईहा ॥ " 20
८५८ अहुङ् ८५९ प्लिहि गतौ । उदित्त्वाद् ने अंहते । “अनातो-" ४।१।६९। इति पूर्वस्यात्वे ने च आनंहे । अंहिता । उणादौ “अम्भि-कुण्ठि-" (उ० ६१४) इति इर्नलुक् च, अहिः । "तङ्कि-वकि-" (उ० ६९२) इति रौ अंहिः । “अस्-" (उ० ९५२) इति असि अंहः पापम् , अमेर्वा “अमेर्भहौ चान्तौ” (उ० ९६२) इति असि । अहुण भासार्थः अंहयति ॥ प्लिहि । प्लेहते पिप्लेहे प्लेहिता। उणादौ "श्वन्-" (उ० ९०२) इति अनि निपातनात् प्लीहा ॥ 25
८६० गर्हि ८६१ गल्हि कुत्सने । गर्हते जगहें गर्हिता । यङि जागते । मनि सुगर्मा। वनि सुगरे । स्त्रियां "क्तेटो-" ५।३।१०६। इति अः, गर्दा । "श्वादिभ्यः" ५।३।९२। इति क्तौ
१ अत्र कृग उभयपदित्वेऽपि “आमः कृगः" ३॥३॥७५। इत्यात्मनेपदमेव न परस्मै। ईहाम्बभूव, ईहामास, भ्वस्तिभ्यां परस्मैपदमेव एवमन्यत्रापि ॥ २ अम गतौ इत्यस्माद् अस् भकार-हकारौ चान्तौ भवतः, अंहः पापं अपराधः दीनश्च ॥