________________
१०६ आचार्यश्रीहेमचन्द्रविरचितं
भूषादिगणे सनि परिषिषेविषते, अत्र "णि-स्तोरेवा-" २।३।३७। इति नियमेन बाधितस्य षत्वस्य प्रतिप्रसवः । अनटि सेवनम् । भीरुष्ठानादित्वात् पत्वे दुन्दुभेः सेवनं दुन्दुभिषेवणम् ॥ सेवृङ् । सेवते ।
अषोपदेशत्वात् षत्वाभावे परिसेवते निसेवते विसेवते पर्यसेवत । सनि परिसिसेविषते । सिसेवे । ___णौ असिसेवत् । क्ते सेवितः । "क्तेटो-'" ५।३।१०६। इत्यः, सेवा ॥ केवृङ् । केवते 5 चिकेवे । णौ डे अचिकेवत् । उणादौ मृदि-कन्दि-" (उ० ४६५) इति अले केवलः ॥
खेवृ । खेवते चिग्वेवे खेविता । णौ डे अचिखेवत् ।। गेवृङ्। गेवते जिगेवे । णौ डे अजिगेवत् ॥ ग्लेवृङ् । ग्लेवते जिगेवे । णौ डे अजिग्लेवत् ॥ पेङ् । पेवते 'पिपेवे ।
णौ के अपिपेवत् ॥ प्लेवृह । प्लेवते पिप्लेवे। णौ अपिप्लेवत् ॥. मेवृ । ___ मेवते मिमेवे । णौ डे अमिमेवत् ॥ म्लेवृङ् । ग्लेवते मिम्लेवे । णौ के अमिम्लेवत् ॥ 10 ८२८ रेवृङ् ८२९ पवि गतौ । रेवङ् प्लुतिगतावित्यन्ये । प्लुतिभिर्गतिः प्लुतिगतिः ।
रेवते रिरेवे रेविता । ऋदित्त्वाद् उ ह्रस्वाभावे अरिरेवत् । “नाम्युपान्त्य-" ५।१।५४। इति के रेवा नर्मदा। उणादौ "तृ-जि-" (उ० २२१) इति अन्ते रेवन्तः सूर्यपुत्रः । रेवती तु रीयतेर्विचि मतौ ड्या रूपम् ॥ पवि। पवते पेवे पविता । “इ-ङितः" ५।२।४४। इति अने पवनः ।।
अथ शान्तौ द्वौ सेटौ च16 ८३० काशृङ् दीप्तौ । काशते चकाशे काशिता । ऋदित्त्वाद् डे हस्वाभावे अचकाशत् ।
अचि काशः आकाशः सङ्काशः प्रकाशः । “नामिनः काशे" ३।२।८७। इति दीर्घ प्रतीकाशः नीकाशः । घञि काशः। उणादौ “वनि-कणि-" (उ० १६२) इति ठे काष्ठम् । “पदि-पठि-" (उ० ६०७) इति इः, काशिः ॥
८३१ क्लेशि बांधने । क्लेशते चिक्लेशे क्लेशिता। क्ते क्लेशितः । "क्तटो-'" ५।३।१०६। 20 इत्यः, क्वेशा । घनि क्लेशः ॥
अथ पान्ता द्वादश सेटश्व
८३२ भाषि च व्यक्तार्या वाचि । प्रकृतेः परश्चकारः प्रकृतिमनुकर्षति, तेन क्लेशिर्राषिश्च ३क्तायां वाचि । क्लेशिरुदाहृत एव । भाषि । भाषते बभाषे भाषिता । णौ डे "भ्राज-भास-" ४।२। ३६॥ इति वा हस्वे अबीभषत् अबभाषत् । क्ते भाषितः । "क्तेटो-"५।३।१०६॥ इति अः, भाषा। 25 पनि भाषः । प्यणि भाष्यते इति भाष्यम् , करणे वा “बहुलम्"५।३।१॥ इति ध्यण् । “निन्द हिंस-" ५।२।६८। इति णके व्याभाषणशीलो व्याभाषकः ॥
१ "भीरुष्टानादयः" ३३३॥ २पिपेवे पेविताणौ इति मुद्रिते ॥३केशि विवाधने प्र.। क्लेश व्यक्तायां वाचि इति धातु पदीप पृ. ४५ धा. ६०७। अत्र सायणः क्लेश अव्यक्तायां वाचि । याधन इति दुर्गः, अत्र स्वामी क्लेश व्यक्तायां वाचि चेति पठन् इमावपि पूर्वधातोरर्थावेवाह । चन्द्र-दुर्ग-मैत्रय-सम्म. ताकार-देवादयस्तु धात्वन्तरमेवाहुः । इति माधवधा०पृ.११४ धा०५९९ ॥ ४ भाषते भाषिता संपा.१॥