SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ मात्मनेधातवः ८०९-८२७] स्वोपर्व धातुपारायणम् । १०५ इके कलिका कोरकम् , उत्कलिका ऊर्मिः । कलम इति तु कडत् मदे इत्यस्य "सृ-पृ-प्रथि-" (उ० ३४७) इति अमे डस्य लत्वे च सिद्धम् । “स्था-छा-मा-" (उ० ३५७) इति ये कल्यं प्रातः । "कुलि-लुलि-" (उ० ३७२) इति आये कलायः त्रिपुटधान्यम् । “मृदि-कन्दि-" (उ०४६५) इति अले कललं शुक्रशोणितमलः । “कल्यनि-महि-" (उ० ४८१) इति इले कलिलं व्याप्तम् । “ऋपृ-नहि-" (उ० ५५७) इति उपे कलुषं पापम् । “कलेर्मषः (उ० ५६२) कल्मषं पापम् । “कुलेश्च । माषक्” (उ० ५६३) कल्माषः शबलः । “कलि-कुलिभ्यां मास" (उ०५८४) कल्मासः शबलः । "पदि-पठि-" (उ० ६०७) इति इः, कलिः । कलण क्षेपे कालयति । अचि कालः । “णि-वेत्त्या-" ५।३।१११। इति अने कालना । “स्वरेभ्यः-"(उ० ६०६) इति इः, कालिः । कालिकेति तु कालात् चोराद्यकनि । कलण् संख्यान-गत्योः अदन्तः, कलयति । कलना । “भीषि-भूषि-" ५।३।१०९। इत्यत्र बहुवचनाद् अङि कला ॥ 10 ८१५ कल्लि अशन्दे । शब्दस्याभावोऽशब्दम् तूष्णीम्भावः । शब्दार्थोऽयमित्येके । अव्यतशब्दार्थे इत्यपरे। कल्लते चकल्ले कल्लिता। अचि कल्लः । उणादौ "पिञ्छोल-कल्लोल-" (उ० ४९५) इति ओले कल्लोलः॥ अथ वान्ताश्चतुर्दश सेटश्च. ८१६ तेङ ८१७ देवृङ् देवने । तेवते तितेवे तेविता । ऋदित्त्वाद् के न इस्वः, अति- 15 तेवत् । यडि तेतेव्यते। यङ्लुपि तेतेवीति, पक्षे "अनुनासिके च-" ४।१।१०८। इति वस्योटि गुणे च तेतयोति, कित्येवोडिति पक्षे “य्वोः-" ४।४।१२१। इति वलुकि तेतेति । मनि “अनुनासिके च-" ४।१।१०८। इति वस्योटि गुणे च सुतयोमा । वनि “य्वोः-" ४।४।१२१। इति वलुकि सुतेवा । किपि ऊटि सुतयूः । विचि “य्वोः-" ४।४।१२१॥ इति वस्य लुकि सुतेः । क्तरपवादः "क्तेटो-" ५।३।१०६। इति अः, तेवा ॥ देवृङ् । देवते दिदेवे देविता । ऋदि-20 त्त्वाद् डे न इस्वः, अदिदेवत् । शेषं पूर्ववत् । “परेर्देवि-" ५।२।६५। इति घिनणि परिदेवी । “उपसर्गाद् देव-देवि-" ५।२।६९। इति णके आदेवकः । उणादौ "ऋच्छि-चटि-" (उ० ३९७) इति अरे देवर । "मृदि-कन्दि-" (उ० ४६५) इति अले देवलः ऋषिः । देवट इति तु दीव्यतेः "दिव्यवि-" (उ० १४२) इति अटे ॥ ८१८ वृह ८१९ सेवृङ् ८२० केवृङ् ८२१ खेवृड ८२२ गेवृह ८२३ ग्लेख 25 ८२४ पेङ ८२५ प्लेवृङ् ८२६ मेवृङ् ८२७ म्लेवृङ् सेवने । सर्वे ऋदितः सेटश्च । ऋदित्त्वं ङपरे णावुपान्त्यहस्वाभावार्थम् । “पः सो-" २।३।९८॥ इति सत्वे सेवते सिषेवे सेविता । ऋदित्त्वाद् डे इस्वाभावे षोपदेशत्वाच्च “नाम्यन्तस्था-" २।३।१५। इति षत्वे असिषेवत् । “परिनि-वेः सेवः” २।३।४६। इति षत्वे परिषेवते निषेवते विषेवते । अव्यवायेऽपि पर्यषेवत इत्यादि । १ कलिः सं १ तपा• प्र• ॥ २ चोरादेः" ७१॥७३॥ इति सूत्रम् ॥ धा.पा. १४
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy