________________
१०४ आचार्यश्रीहेमचन्द्रविरचितं
[भूषादि गणे पुनः । “विष्टपोलप-" (उ०३०७) इति अपे निपातनात् उलपः । वलण प्राणने। घटादिधेत्येके । वलयति ॥ वल्लि । वल्लते ववल्ले वल्लिता । ते वल्लितः । ते सेट्त्वात् "क्तेटो-"५।३।१०६। . इति अः, वल्ला । अचि वल्लम् । उणादौ "कृ-श-ग-"(उ० ३२९) इति अभे वल्लभः । “मी-मसि-"
(उ० ४२७) इति ऊरे वल्लूरं शुष्कमांसम् । “वडि-वटि-" (उ० ५१५) इति अवे वल्लवो 5 गोपालः । “पदि-पठि-" (उ० ६०७) इति इः, वल्लिलता । "नदि-वल्लि-" (उ० ६९८) इति अरौ वल्लरिर्मञ्जरी ॥
८०९ शलि चलने च । चकारात् संवरणे । तालव्यादिः । शलते शेले शलिता । उणादौ "भीष्शलि-"(उ० २१) इति के शल्कः शरणम् । “शलि-बलि-" (उ० ३४) इति आके शलाका ।
"शल्यणेर्णित्" (उ० ५९) इति ऊके शालूकः । “ कृ-श-ग-" (उ० ३२९) इति. अभे शलभः । 10 "स्था-छा-मा-" (उ० ३५७) इति ये शल्यम् , यावादित्वात् के शल्यकः । “मृदि-कन्दि-" (उ० ।
४६५) इति अले शललं श्वावित् सूची । शलमिति तु अचि । “कमि-वमि-"(उ०६१८) इति णिदिः, शालिः । “शलेराटुः" (उ० ७६३) शलाटुः कोमलं फलम् । “लस्जीयि-शलेरालुः" (उ० ८२२) शलालुर्वृक्षावयवः । शल गतौ ज्वलादिः । शलति । "वा ज्वलादि-" ५।११६२। इति णे
शाला । अचि शलं श्वाविद्रोम ।। 15 ८१० मलि ८११ मल्लि धारणे । मलते मेले मलिता । अचि मलः । कर्मणि पनि माला।
उणादौ "कु-गु-वलि-" (उ० ३६५) इति अये मलयो गिरिः । “महि-कणि-" (उ० ४२८) इति ऊरे मालूरो बिल्वः । चुरादेराकृतिगणत्वाच्चुरादावदन्तः । मलयति । अलि परिमलः ॥ माल्ले । मल्लते ममल्ले मल्लिता । अचि मल्लः, गौरादित्वाद् ड्याम् मल्ली विचकिलः । णके मल्लकः, खियाम्
मल्लिका । उणादौ दृ-कृ-न-" (उ० २७) इति अके मल्लकः शरावः, मल्लिका विचकिलः 20 शरावश्च ॥
८१२ भलि ८१३ भल्लि परिभाषण-हिंसा-दानेषु । भलते बमले भलिता। भलिस्थाने ओष्ठ्यादि बलिमेके पठन्ति, बलते । “अनादेशादे:-" ४।१।२४। इत्येत्व-द्वित्वाभावयोः बेले। भलिए आभण्डने । निभालयते । उणादौ "मृ-मन्यजि-" (उ०५८) इति ऊके भालूक ऋक्षः ॥
__ भल्लि । भल्लते बभल्ले भल्लिता । करणे "व्यञ्जनाद्-" ५।३।१३२। इति घनि मल्लः क्षुरप्रः । 25 उणादौ "कणि-भल्लेीर्घश्च वा” (उ० ६०) इति ऊके भल्लुको भाल्लूकश्च ऋक्षः । “पदि-पठि-" (उ०६०७) इति इः, भल्लिः ॥
८१४ कलि शब्द-सङ्ख्यानयोः। कलते आकलते सङ्कलते परिकलते प्रत्याकलते विकलते। चकले कलिता । अचि कलः । कर्मणि घनि कालः । “तिक्कृतौ नाम्नि" ५।१७१। इति अके कलिका । उणादौ "भीण्शलि-"(उ०२१) इति के कल्को दम्भः । “क्री-कलि-" (उ० ३८)इति
१ “यावादिभ्यः कः" ॥३॥१५॥ २ च सं १ तपा० नास्ति ।