________________
आत्मनेधातवः ७९७-८०८] स्वोपझं धातुपारायणम्।
१०३ नेट , स्फातः स्फातवान् । “स्फायः स्फी वा"४।१९४। इति स्फीभावे स्फीतः स्फीतवान् । णौ "स्फायः स्फा" ४।२।२२। इति स्फाव् , स्फावयति । पारायणिकानां तु स्फाययतीत्यपि । तथा विपि यलुकि स्फामाचष्टे इति णिचि अन्तस्यावादेशे स्फवयतीति । उणादौ "दिन-नम-" (उ०२६८) इति ने निपातनात् फेनः । “भी-वृधि-" (उ० ३८७) इति रे स्फारम् । “स्थविर-पिठिर-"(उ० ४१७) इति इरे निपातनात् स्फिरः स्फार इत्यर्थः ॥ ओप्यायैङ् । प्यायते । परोक्षा-यङोः “प्यायः 5 पी:” ।१।९१। इति प्यादेशे आपिप्ये आपेपीयते । "क्तयोरनुपसर्गस्य" ४।१।९२। इति पीभावे "सूयत्याद्यो-" ४।२।७०। इति क्तस्य नत्वे च पीनौ स्तनौ, पीनं मुखम् । “आङोऽन्धूधसोः” ४।१। ९३। इति प्यादेशे आपीनोऽन्धुः, आपीनमूधः; अर्थान्तरे तु आप्यानः चन्द्रः, अत्र "व्यञ्जनान्तस्थाऽऽतो-" ४२।७१। इति तस्य नत्वम् । “दीप-जन-" ३१४६७। इति कर्तर्यद्यतन्यास्टे वा मिचि तलुकि च अप्यायि अप्यायिष्ट । “न ख्या-पूग्-" २।३।९०। इति प्रतिषेधात् "स्वरात्" २।३।८५/ 10 इति णत्वाभावे प्रप्यानः, ओदित्त्वात् “सूयत्याद्यो-" ४।२।७०। इति तस्य नत्वम् ।
. ८०६ तायङ् सन्तान-पालनयोः। सन्तानः प्रबन्धः । तायते तताये तायिता । "दीपजन-" ३।४।६७। इति वा निचि अतायि अतायिष्ट । ऋदित्त्वाद् डे न इस्वः, अततायत् । यङि ताताय्यते । यङ्लुपि तातायीति ताताति । “न णिङ्-य-" ५।२।४५। इति प्रतिषेधादनाभावे तृनि तायनशीलस्तायिता । "णिन् चावश्यका-" ५।४।३६॥ इति णिनि तायी ॥
15 अथ लान्ता नव सेटश्च
८०७ वलि ८०८ वल्लि संवरणे । वलते । “अनादेशादे:-" १।११।२४। इत्येत्व-द्वित्वाभावयोः “न शस-"४।१।३० इति निषेधात् ववले । वलिता । ते उपोद्वलितः । अचि वलः, कुत्सितो वलः कुवलः, स्त्रियां गौरादित्वाद् ड्याम् कुवली बदरी । घनि वालाः केशाः; कल्याणा वाला यस्या इति क्रोडादित्वाद् “असह-नञ्-" २।४।३८। इति ज्यभावे आपि कल्याणवाला; श्वेतवालीति 20 तु जातिवाचिनः “पाक-कर्ण-"२।४।५५। इति ड्यां सिद्धम् । उणादौ "भीण-शलि-"(उ०२१) इति के बल्कम् । “स्यमि-कषि-"(उ० ४६) इति ईके वलीकं नीवम् । “सृणीका-ऽस्तीक-" (उ० ५०) इति ईके निपातनाद् वल्मीको नाकुः । “कु-गु-वलि-"(उ० ३६५) इति अये वलयः कटकः । “वलिंपुषेः कलक्" (७० ४९६) वल्कलम्, वल्कं लातीति वा डे वल्कलम् । “पदि-पठि-" (उ०६०७) इति इः, वलिः । “फलि-वलि-" (उ० ७५८) इति गौ वल्युः । दन्त्यौष्ठ्यादिरयम् । ज्वलादौ बल 25 प्राणन-धान्यावरोधयोरिति त्वोष्ठ्यादिः । बलति । “वर्षादयः क्लीबे" पा३।२९। इत्यलि बलम् । "वा ज्वलादि-" ५।१।६२। इति णे बालः । अचि बलः । उणादौ "शलि-बलि-" (उ०३४) इति आके बलाका । “बलेोऽन्तश्च वा" (उ० १३३) इति अजे बल्वज उलपः, बल्वजा सबुसो धान्य.
१ को स्फातिः । कथं स्फीतिरिति ? उच्यते, स्फायते स्म क्तः स्फीतः, स्फीत इवाचरति “कर्तुः क्विप्" ४।२५। स्फीततीति "स्वरेभ्य इ." (उ०६०६) इति स्फीतिः ॥२ संवरणे सधरणे चेति माधवधा. पु०९७ धा० ४८७-८८ कौमुथ च पृ.१३८ धा. ४९२-२ ॥.