________________
मात्मनेधातवः ७८८-७९६] स्वोपचं धातुपारायणम् । इति अठे कमठो भिक्षाभाजनम् । “ऋच्छि-चटि-" (उ०३९७) इति अरे कमरो मूर्खः । “कमेरत उच्च" (उ०. ४०९) इति आरे कुमारः । "मृदि-कन्दि-" (उ० ४६५) इति अले कमलम् , णिडि कामलः [नेत्ररोगः] । “मुरलोरल-" (उ० ४७४) इति अले निपातनात् कोमलम् । “कमि-तिमेर्दोऽन्तश्च" (उ० ५४) इति उके कन्दुकः । “शमि-कमि-पलिभ्यो बलः” (उ०४९९) कम्बलः । “मावा-वदि-"(उ० ५६४) इति से कंसः । “कृसि-कमि-" (उ० ७७३) इति तुनि कन्तुः कन्दर्पः ॥ 5 अथ यान्ताः सप्तदश सेटश्च
७९० अयि ७९१ वयि ७९२ पयि ७९३ मयि ७९४ नयि ७९५ चयि ७९६ रयि गतौ । अयते । “उपसर्गस्यायौ" २।३।१००। इति लत्वे पलायते पल्ययते । “दया-ऽयाऽऽस्-" ३१४१४७। इति परोक्षाया आमि पलायाञ्चके । पलायिता । अनटि निलयनम् दुलयनम् । निर्दसोस्तु सो रुत्वस्य परे लत्वेऽसिद्धत्वात् निरयणम् , अत्र "स्वरात्" २।३।८५। इति नस्य 10 णत्वम् । “अदुरुपसर्गान्तरो-' २।३।७७) इत्यत्र दुरो वर्जनात् "स्वरात्" २।३।८५। इति णत्वामावे दुरयनम् । मनि "वोः-"४।४।१२१॥ इति यलोपेऽकारान्ताद् विहितेऽशिति “अतः" ।। ३१८२। इति लोपविधानादस्य लोपाभावे स्वमा; ये त्वत्राप्यल्लुकमिच्छन्ति तन्मते सुमा। किपि "वोः-"४।४।१२१॥ इति यलुकि “इस्वस्य-" ४।४।११३। इति ते स्वत् ; ये त्वत्रापि "अतः" ४३१८२। इत्यल्लोपमिच्छन्ति तन्मते सुत् ; ये त्वन्तरङ्गं तागमं प्रति बहिरङ्गस्यै यलुकोऽसिद्ध- 15 त्वमिच्छन्ति तन्मते स्वः । विचि यलुकि स्वः । तौ "ग्यो:-" ४।४।१२१॥ इति यलुकि अतिः, अल्लपक्षे तु तिः ॥ वयि । वयते । “न शस-"४।१।३०। इत्येत्वनिषेधाद् ववये । वयिता । मनि “य्वो:-"४।४।१२१। इति यलुकि सुवमा; अल्लुक्पक्षे सुन्मा, अत्र "स्वरम्य परे प्राग्विधौ" ७१।११०। इति स्थानित्वाद् “अनुनासिके च-" ४।१।१०८। इति वस्योट् न भवति । उणादौ "-वयिभ्यां णित्" (उ० ५७०) इति असे वायसः । “अम्" (उ० ९५२) इति असि वयः पक्षी 20 बाल्यादि च ॥ पयि । पयते पेये पयिता । मनि यो लुकि सुपमा, अल्लुक्पक्षे सुप्मा । एवं पनि सुषवा सुप्वा । क्तौ पतिः प्तिः। [उणादौ] "असू” (उ० ९५२) इति असि पयः, पिवतेर्वा "पा-हाक्भ्यां पय-छौ च" (उ० ९५३) इति असि ॥ मयि । मयते मेये मयिता । अचि मयः ॥ नयि । नयते नेये नयिता । अणोपदेशत्वाद् णत्वाभावे प्रनयिता । मनि यो लुकि सुनमा, अल्लुक्पक्षे सुन्मा । एवं वनि सुनवा सुन्वा । किपि यलुकि "हस्वस्य-" ४।४।११३॥ इति 25 ते च सुनत् सुनतौ सुनतः । सू सूनौ सूनः, अत्राल्लुक् "स्वरस्य परे प्राग्विधौ" ७४।११०। इति स्थानित्वस्य 'न सन्धि-" ७४।१११॥ इति प्रतिषेधात् "नि दीर्घः" १।४।८५) इति दीर्घः "नाम्नो नोऽनहः" २।१।९१॥ इति नस्य लुक् च भवति । क्तौ नतिः न्तिः ॥ चयि ।
१ स्यायनको' इति सं१ बिना सर्वत्र अश्वेिऽपि ॥