________________
१०० आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे ७८८ क्षमौषि सहने । क्षमते चक्षमे । औदित्त्वाद् वेट्, क्षमिता क्षन्ता, क्षमितव्यम् क्षन्तव्यम् । "शकि-तकि-" ५।१।२९। इति ये क्षम्यम् । षित्त्वादङि क्षमा । क्षमौच सहने इत्यस्य तु स्त्रियां क्तौ शान्तिः । वेट्त्वात् क्तयोर्नेट्, क्षान्तः क्षान्तवान् । उणादौ "गमि-जमि-" (उ० ९३७)
इति डिति अमि क्षं भार्या । "क्रमि-गमि-क्षमेस्तुमाञ्चातः” (उ० ९४२) क्षान्तुं भूमिः तुमर्थश्च । b क्षमौच सहने क्षाम्यति ।।
७८९ कम कान्तौ । कान्तिरभिलाषः। “कमेणिङ ३।४।२। इति णिङि कामयते । "अशवि ते वा" ३।४।४। इति वा णिङि कम्यते काम्यते । “णि-श्रि-" ३।४।५८। इति उ अचकमत अचीकमत । चकमे । “धातोरनेकस्वरात्-"३।४।४६। इति परोक्षाया आमि कामयाञ्चके । कमिता
कामयिता । “ऊदितो वा" ४।४।४२। इति क्त्वि वेट्, कान्त्वा कमित्वा कामयित्वा । “ज्ञानेच्छा-" 10 ५।२।९२। इति वर्तमाने क्तः, कान्तः, अत्र “वेटोऽपतः" ४।४।६२। इति नित्यमिडभावः । णिङि
कामितः ।क्तौ कान्तिः। “णि-वेत्त्या--"५।३।१११॥ इति अने कामना । अनटि कमनम् कामनम् । "न ख्या-पूग-"२।३।९०। इति प्रतिषेधाद् “अदुरुपसर्गान्तरो-" २।३।७७। इत्यधिकृत्य "स्वराद्" २।३८५। इति "णे;" २।३।८८। इत्यनेन च णत्वं न भवति, प्रकमनम् प्रकामना । "कर्मणोऽण"
५।१।७२। इति अणि धर्मकामी। णिङि "शीलि-कामि-" ५।१।७३। इत्यणोपवादे णे धर्मकामा । 15 "अतः कृ-कमि--" २।३।५। इति रेफस्य सत्वे पयस्कोमः । “शकि-तकि-" ५।१।२९। इति ये
कम्यम् । णिङि “य एचातः" ५।१।२८। इति ये काम्यम् । णिड्यानशि कामयमानः, अत्र शन्विपवत्वाद् नित्य णिङ् “अमोऽकम्यमि-"४।२।२६। इत्यत्र कमेर्वर्जनाद् ह्रस्वाभावश्च । कथं कामयानः ! कामो यानमस्येति बहुव्रीहौ कामयानः, कामगतिरित्यर्थः; आनशि वाऽऽगमशासनस्यानित्यत्वाद्
माभावः। यद् वामनः-"कामयानः सिद्धोनादिश्चेति"। "मोऽकमि-"४।३।५५। इत्यत्र कमेवर्जनाद् 20 वृद्धिप्रतिषेधाभावे घञि कामः । "श-कम-" ५।२।४०। इति उकणि कामनशीलो दास्याः कामुकः,
अत्र "अकमेएकस्य" २।२।९३। इत्यत्र कमेर्वर्जनात् प्रतिषेधाभावे "कर्मणि कृतः" २।२।८३। इति षष्ठी । “स्म्यजस-" ५।२।७९। इति रे कमः । “न णिङ्-य-" ५।२।४५/ इत्यत्र दीपिग्रहणादुसर्गस्यापि समावेशे "इडितो-" ५।२।४४। इति अने कमनः । उणादौ मृ-ज-श-" (उ०१६७)
१ इदमुद्राहरणं णिङभावे वेदितव्यम् अन्यच्च णिङ्भावे ॥२ शीलादिरयम्, तथा चाहुः-'शीलितो रक्षितः क्षान्त आवृष्टो जुष्ट उद्यतः । संयतः शयितस्तुष्टो रुष्टो रुषित भाशितः ॥१॥ कान्तोऽभिव्याहतो हृष्टस्तृप्तः सप्तः स्थितो मृतः । अमृतो मुदितः पूर्तः शक्तोऽक्तः श्रान्तविस्मितौ ॥२॥ संरब्धारब्धदयिता दिग्धः स्निग्धो अवतीर्णकः । आरूढो मूढ आयस्तः क्षुधितक्लान्तब्रीडिताः ॥३॥ मतश्चैव तथा कुद्धः श्लिषः सुहित इत्यपि । लिप्तदृप्तौ च विलेयौ सति लमादयस्तथा ॥४॥ इति शीलादयः ॥ ३ "शीलि-कामि-भक्ष्या-चरीक्षिक्षमो ः" ५1१1३1 इत्यत्र कामीति ण्यन्तनिर्देशात् 'अण'प्रत्ययान्तोऽयं प्रयोगः, अण्यन्तनिर्देशे च "अंतः कृकमिकंस-कुम्भ-कुशा-कर्णी-पात्रेऽनव्ययस्य" ॥३५॥ इत्यत्र केवलस्यैव कमर्ग्रहणात् सकारादेशः, ज्यन्तस्य हुणे सति पयःकाम इत्येव भवति, स्त्रियां तु पयःकामा, अणम्तस्य पयस्कामी इति ॥