________________
मात्मनेधातवः ७७४-७८७) स्वोपचं धातुपारायणम् ।
७८५ रभिं रामस्ये । राभस्य कार्योंपक्रमः। "रभोऽपरोक्षा-शवि" ४।४।१०२। इति शव्-परोक्षयोर्वर्जनाद् नस्याभावे आरभते आरेभे । अनुस्वारेत्त्वान्नेट,आरब्धा आरब्धुम् । [सनि] “रभलभ-"४।१।२१। इति स्वरस्येत्वे द्वित्वाभावे च आरिप्सते । घनि आरम्भः । णौ आरम्भयति । णके आरम्भकः । “साधौ" ५।१।१५५। इति णिनि साध्वारम्भी । “ख्णम् चाभीक्ष्ण्ये" ५।४।४८। इति णमि आरम्भमारम्भं याति । अचि रम्भः, स्त्रियाम् रम्भा । अनटि आरम्भणम् । एषु "रभोऽपरोक्षा-" 5 ४।४।१०२। इति नः । “शकि-तकि-" ५।१।२९। इति ये रभ्यम् आरभ्यम् संरभ्यम् । “शकधृष-" ५।४।९०। इति तुमि आरभते भोक्तुम् । उणादौ "दिवादि-" (उ० ५७२) इति किति असे रभसो निर्विचारा प्रवृत्तिः॥
. ७८६ डुलभिष् प्राप्तौ । शव्-परोक्षयोर्वर्जनाद् "लभः" ४।४।१०३॥ इति नस्याभावे लभते लेभे; अन्यत्र स्वरे ने आलम्भयति, आलम्भकः, साध्वालम्भी, आलम्भमालम्भं याति, आलम्भो 10 वर्तते । अनुस्वारेत्त्वान्नेट, लब्धा लब्धुम् । “शकि-तकि-" ५।१।२९। इति ये लभ्यम् । “आडो यि" ४।४।१०४। इति ने आलम्भ्यम् । “उपात् स्तुतौ” ४।४।१०५। इति ने उपलम्भ्यं धनम् । ड्डित्त्वात् त्रिम, लब्ध्रिमम् । षित्त्वाद् अङि “लभः" ४।४।१०३॥ इति ने "नो व्यञ्जनस्या-" ४।२।४५ इति नलुकि लभा उपलभा । "श्यादिभ्यः" ५।३।९२। इति क्तौ लब्धिः उपलब्धिः। "त्रि-रुणमोर्वा" ४।४।१०६। इति वा ने अलाभि अलम्भि, लाभलाभम् लम्भलम्भम् । “उपसर्गात् 16 खल्-घनोश्च" ४।४।१०७। इति ने दुष्पलम्भः उपलम्भः उपालम्भि उपलग्भमुपलम्भम् । “सु-दुर्यः" ४।४।१०८। इति ने अतिसुलम्भम् अतिदुर्लम्भम् अतिसुलम्भः अतिदुर्लम्भः । केवलेभ्यस्तु नस्याभावे सुलभम् दुर्लभम् सुलाभः दुर्लाभः । “रभ-लम-" ४।१।२१। इति स्वरस्येत्वे द्वित्वाभावे च सनि लिप्सते भोक्तुम् , अत्र "शक-धृष-" ५।४।९०। इति तुम् ॥
अथ मान्तात्रयः सेटश्च
७८७ भामि क्रोधे । भामते बभामे भामिता । यङि बाभाम्यते, अत्रातः परस्यानुनासिकस्याभावाद् “मुरतो--'' ४।१॥५१॥ इति पूर्वस्य मुरन्तो न भवति, ये त्वत इति पूर्वस्य विशेषणं प्रतिपन्नास्तन्मते मौ बम्भाम्यते । यङ्लुपि वस्-मसोः “मो नो-" २।१।६७। इति मस्य नत्वे बाभान्वः बाभान्मः बम्भान्वः बम्भान्मः । किपि पदान्ते मो नत्वे प्रभान् , “नाम्नो नोऽनहः" २।१।९१। इति नलग् न भवति, नत्वस्यासिद्धत्वात् । आवश्यके णिनि भामिनी । घनि भामः । उणादौ "पश्चमाद् 25 ड" (उ०१६८) इति डे भाण्डम् ॥
१रभ्यम् शक इति संपा.१ । खे० तु रभ्यम् आरभ्यम् शक' इति ॥ २ °विचारा वृत्तिः संपा.१ वा. प्र.॥ ३ कथं तर्हि अतिसुलभम् अतिदुर्लभमिति ? अत्रातेः पूजातिकमार्थत्वादनुपसर्गत्वम्, तेम मनोन्तः इति ।