________________
आत्मनेधातवः ७५८-७७३] स्वोपरं धातुपारायणम् ।
अथ बान्ताः षद् सेटश्च
- ७६४ अबुङ ७६५ रबुङ् शब्दे । उदित्त्वान्ने अम्बते । “अनातो-" ४।१।६९। इति पूर्वस्याऽऽत्वे ने च आनम्बे । अचि कर्मणि घञि वा अम्बा । उणादौ "शा-मा-श्या-'' (उ० ४६२) इति ले अम्ब्लो रसः ॥
रखुङ् । उदित्त्वान्ने रम्बते ररम्बे रम्बिता। के रम्बते इत्यचि करम्बः, कृगो वा "कृ-कडि- 6 कटि-" (उ० ३२१) इति अम्बे करम्बः ॥
७६६ लबुङ् अवसंसने च । चकाराच्छब्दे । उदित्त्वान्ने लम्बते प्रलम्बते अवलम्बते आलम्बते उल्लम्बते विलम्बते इत्यनेकार्थत्वमुपसर्गद्योतितमन्यत्राप्युदाहार्यम् । णके लम्बिका त्रिकटा, विलम्बिका शकृद्धिलम्बः । अचि लम्बः । उणादौ."नो लम्बेर्नलुक् च" (उ० ८३८) इति णिदूः, अलाबूः । अलम्बुसेति त्वलतेरम्बुसे अलम्बुसा नाम शाकम् ॥
10 ७६७ कवृकवणे । वर्णो वर्णनं शुक्लादिश्च । कबते चकबे कविता । ऋदित्त्वाद् डे न हूस्वः, अचकावत् । ध्यणि काव्यम् । उणादौ “जठर-"(उ०४०३) इति अरे कबरः कबरी । “पदि-पठि-" (उ० ६०७) इति इः, कविः । कर्बुर इति तु कर्वेरोष्ठयान्तस्य "वाश्यसि-” (उ० ४२३) इति उरे ॥ - ७६८ क्लीबृक अधार्थे । क्लीबते चिल्लीबे क्लीबिता । ऋदित्त्वाद् के अचिक्लीबत् । “नाम्यु- 15 पान्त्य-"५।११५४। इति के क्लीबः । ते सेट्त्वात् “तेटो-" ५।३।१०६॥ इति अश्व, क्लीबा विक्लीबा ।।
७६९ क्षीबृङ्मदे। क्षीबते चिक्षीबे क्षीबिता । ऋदित्त्वाद् उ अचिक्षीबत् । “नाम्युपान्त्य-" ५।१।५४। इति के क्षीवः प्रक्षीबः । क्तयोः “अनुपसर्गाः क्षीबो-" ४।२।८०। इति निपातनात् क्षीवः क्षीबवान् , उपसर्गात्तु-प्रक्षीवितः प्रक्षीबितवान् । एते च कबृङादयो यद्यपि दन्त्यौष्ठयान्ता अपि काव्यादिशब्देषु श्रूयन्ते तथापि वृद्धैरोष्ठ्यान्त्यमध्ये पठितत्वादस्माभिस्तथैव पठिताः॥ 20 अथ भान्ताः सप्तदश रमि-लभिवर्जा सेटश्च
७७० शीभृङ् ७७१ वीभृङ् ७७२ शल्भि कथने । शीभते शिशीभे शीभिता। ऋदित्त्वाद् डे अशिशीभत् । उणादौ "ऋच्छि-चटि-" (उ० ३९७) इति अरे शीभरो हस्तिहस्तमुक्तो जललवः ॥ वीभृङ् । वीभते विवीमे वीभिता । ऋदित्त्वाद् डे अविवीभत् ॥ शल्भि । शल्भते शशल्मे शल्भिता । उ अशशस्मत् । त्रयोऽपि के सेट इति "क्तेटो-"५।३।१०६। 25 इति अः, शीमा वीमा शल्भा ॥
७७३ वल्मि भोजने । वल्भते ववल्मे वल्भिता। घनि वल्भः ॥ १ अली भूषणपर्याप्तिवारणेषु इत्येतस्य "अलेरम्बुसः” (उ० ५८५) इति अम्बुसप्रत्ययः ।। २ "ऋच्छि-चटि-" (उ० ३९७) इति कुंक शब्दे इत्यस्माद् अरेऽपि कबरः इति उणादिगणविवृतौ ।। ३ आधार संपा.१ सं. वा.का..॥४कथने संपा.१ वा०॥