________________
मात्मनेधातवः ७४३-७५७] स्पोपलं धातुपारायणम् ।
अथ नान्तौ द्वौ सेटौ च--
७४८ पनि स्तुतौ । “गुपौ-धूप-" ३।४।१। इत्याने पनायति जिनम् , इ-डित्त्वाभावादत्र "शेषात्परस्मै-" ३।३।१००। इति परस्मैपदम् । ये तु स्वार्थिकप्रत्ययान्तस्य प्रकृतिवद् ग्रहगाद् यथा 'आय' प्रत्ययान्तस्य प्रकृत्यर्थवाचित्वं तथेदित्त्वमपीति प्रतिपन्नास्तन्मते "इ-ङितः कर्तरि" ३।३२२। इत्यात्मनेपदे पनायते जिनम् । एवं पणायते । “अशवि ते वा"३।४।४। इति वा आये पनायिष्यते पनि- 5 प्यते । उणादौ "तप्यणि-" (उ० ५६९) इति असे पनसः फलवृक्षः। फनस इति तु फेणेः “फनस-तामरसादयः” (उ० ५७३) इति असे निपातनात् ॥
७४९ मानि पूजायाम् । विचारे "शान्-दान-मान्-'" ३।४।७। इति सनि पूर्वस्येतो दीर्घ च मीमांसते धर्मम् । “शंसिप्रत्ययात्" ५।३।१०५। इत्यः, मीमांसा । अर्थान्तरे पनि मानः । अनटि माननम्। णौ मानयति । उणादौ “मा-वा-वदि-" (उ० ५६४) इति से मांसम् । “मानि-बाजेर्लक् 10 च" (उ० ८५९) इति तृः, माता । मानण् पूजायाम् “युजादेर्नवा" ३।४।१८। इति वा णिचि मानयति मानति ॥ अथ पान्ताश्चतुर्दश सेटच
७५० तिपृङ्ख ७५१ टिपङ ७५२ टेपङ क्षरणे । तेपते तितिपे तेपिता । 'आगमशासनमनित्यम्' इतीडभावे तेप्ता । ऋदित्त्वाण्णौ डे अतितेपत् । “वौ व्यञ्जनादे:-" ४।३।२५। इति 15 क्त्वा-सनो कित्त्वे तिपित्वा तेपित्वा, तितिपिषते तितेपिषते ॥ टिपृङ् । “षः सो-"२।३।९८। इति सत्वे स्तेपते । षोपदेशत्वात् षत्वे तिष्टिपे। स्तपिता। ऋदित्त्वाद् डे न इस्वः, अतिष्टेपत् । ते स्तिपितः ॥ टेपृङ् । “घः सो-" २।३।९८। इति सत्वे स्तेपते । पोपदेशत्वात् षत्वे तिष्टेपे । स्तेपिता। क्ते स्तेपितः । ऋदित्त्वाद् के अतिष्टेपत् ॥
७५३ तेपङ कम्पने च । चकारात् क्षरणे । तेपते तितेपे तेपिता। ते तेपितः । ऋदित्त्वाद 20 के न इखः, अतितेपत् ॥
७५४ दुवेपर ७५५ केपङ ७५६ गेपङ ७५७ कपुर चलने । वेपते विवेपे वेपिता। ऋदित्त्वाद् के न ह्रस्वः, अविवेपत् । ट्वित्त्वादयौ वेपथुः । “न ख्या-पूग्-" २।३।९०। इति प्रतिके धाद् णत्वाभावे प्रवेपनम् । उणादौ "विपिना-ऽजिनादयः” (उ० २८४) इति इने निपातनात् विपिन गहनम् ॥ केपछ । केपते केपिता। ऋदित्त्वाद् के अचिकेपत् ॥ गेपङ । गेपते 25 जिगेपे गेपिता। ऋदित्त्वाद् के मजिगेपत् ॥ कपुर । उदित्त्वाद् ने कम्पते चकम्पे कम्पिता। "चल्याहारार्थ-" ३।३।१०८। इति फलवकर्तर्यपि ण्यन्तात् परस्मैपदम् , कम्पयति शाखाम् , “गतिबोधा-"२।२।५। इत्यणिकर्तरत्र कर्मत्वम् । भीष्यादिभ्यः 'अ' प्रत्ययेनैव 'भीषा' आदिसिद्धौ 'अ'
१ फण गतौ इत्यस्य ॥ २ "दिए देष्ट इति च काश्यपः" मा धान-पृ. ८३ पा.३१ ३'मधु' प्रत्यये। " "भीषि-भूषि-चिन्ति" ५।३१०९॥ इत्यादिमूत्रनिर्दिष्टेभ्यः भीष्यादिभ्यो पातुभ्यः ।