________________
आचार्यश्रीहेमचन्द्रविरचितं
[भूषादिगणे रुत्वे "रो रे लग्-" १॥३॥४१॥ इति रो लुक्यस्य दीर्घ च अपास्पाः । "इ-डितो-'" ५।२।४४। इति अने स्पर्धनः । अकर्मकोऽयम् , तेन स्पर्धयति मैत्रमित्यत्र “अणिगि प्राणिकर्तृका-" ३।३।१०७। इति फलवत्कर्तर्यपि परम्मैपदम् “गति-बोधा-" २।२।५। इत्यणिक्कर्तुः कर्मत्वं च । स्पर्धमानः स कृष्णमिति तु कृष्णं प्राप्येत्यध्याहारात् । “बहुलम्" ५।१।२। इति इष्णौ 5 "मेहं म्पर्धिष्णुनेवान्यो धृतो नाको हिमाद्रिणा ॥" [ ]
"क्तेटो-" ५।३।१०६। इत्यः, स्पर्धा । घनि स्पर्धः ।।
७४३ गाधृङ् प्रतिष्ठा-लिप्सा-प्रन्थेषु । प्रतिष्ठा-आस्पदम् । लब्धुमिच्छा लिप्सा । ग्रन्थनं ग्रन्थः । प्रतिष्ठायामकर्मकोऽयम् , लिप्सा-ग्रन्थयोः सकर्मकः । गाधते जगाधे गाधिता । ऋदित्वाद् उ न
हस्वः, अजगाधत् । सनि जिगाषिते । यङि जागाध्यते । यङ्लुपि जागाधीति ! अचि अगाधम्10 अतलस्पर्शम् । “इ-डितो-" ५।२।४४। इति अने गाधनः । उणादौ "पदि-पठि-" (उ०६०७) इति इः, गाधिविश्वामित्रपिता॥
७४४ बाध रोटने । रोटनं प्रतिघातः । बाधते बबाधे बाधिता। ऋदित्त्वाद् उ न हस्वः, अबबाधत् । "इ-डितो-'" ५।२।४४। इति अने बाधनः । "क्तेटो-" ५।३।१०६। इति अः, बाधा ।
घनि बाधः । बाहुरिति तु "मि-वहि-" (उ०७२६) इति णिति औ वहेः ॥ 16 ७४५ दधि धारणे । दाने इति कौशिकः । दधते देधे दधिता । यङ्लुपि दादधीति दादद्धि । णौ डे अदीदधत् । अचि दधः । उणादौ “पदि-पठि-" (उ० ६०७) इति इः, दधि ।
७४६ बधि बन्धने । वैरूंप्ये "शान्-दान्-" ३।४।७। इति सनि इतो दीर्घ च बीभत्सते । अर्थान्तरे तु बंधते । “न जन-बधः" ४।३।५४। इति वृद्धयभावे अबधि, बधकः । उणादौ "पदि
पठि-" (उ० ६०७) इति इ., बधिः । बधण् संयमने बाधयति ॥ 20 ७४७ नाधृङ् नाघवत् । उपताप-ऐश्वर्य-आशीर्-याच्यासु अर्थेषु नाथवदयं वर्तते ।
लाघवार्थमेवं निर्देशः, वर्णक्रमानुसरणात् तु नैकत्राधीतौ। नाधते। अणोपदेशत्वात् “अदुरुपसर्गान्तरो-" २।३।७७। इति णत्वाभावे प्रनाधते परिनाधते । येषां तु णोपदेशोऽयं तन्मते प्रणाधते परि. णाधते। ननाधे । नाधिता॥
१ "बा लोडने। लोडनं प्रतिघातः"-मा० धा० धातुअं० ५ पृ. ३७। २ वहीं प्रापणे इत्यस्मात् उप्रत्यये इत्यर्थः ।। ३ "दध धारणे । दाने इति केचित् पठन्ति । 'दद दाने' इत्यत्र 'दद धारणे' इति । तद् अयुक्तम् । "तद्वेषोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरतामृतः । दधते सुलभां शोभां तदीया विभ्रमा इव" । पिबति च पाति च याऽसको रहस्त्वाम् । व्रज विटपममुं ददस्व तस्यै ॥ xxx इत्यादौ दधो धारणार्थत्वस्य अन्यस्य दानार्थत्वस्य च व्यवस्थितत्वात"-माधा०धातुअं. ८ पृ. ४. । ४ निन्दितरूपो विरूपः तस्य भागो वैरूप्यम् ॥ ५ बन्धनार्थमिदमुदाहरणम् , यदाहुः श्रीहेमचन्द्रसूरिपादाः-"न जन-बधः" ४३५४॥ सूत्रस्य बृहद्वृत्ती"बधिरत्र बध बन्धने इत्ययं गृह्यते यस्य बीभत्सत इति वैरूप्ये एव सनिष्यते, अन्यत्र वधते। 'भक्षकश्चन्नास्ति बधकोऽपि न विद्यते' अर्थान्तरेऽपि त्यादयो नाभिधीयन्त इति अनीकुर्वाणाः परस्मैपदिनश्च एतस्यानियमस्स्यादीन् प्रति इति न्यासकारः। अन्ये तु अगणपठितं वधि हिंसाथ “यत्र शालप्रतीकाशः कर्णोऽवध्यत संयुगे" इत्यादिदर्शनात् मन्यन्ते, प्रत्युपाहरन्ति र वाध इति" ॥