________________
आत्मनेधातवः ६६८-६८५] स्वोपझं धातुपारायणम् ।
अथ ठान्ताः सप्त सेटश्च
६७५ 'एठि ६७६ हेठि विवाधायाम् । एठते । “गुरुनाम्यादेः-" ३।४।४८॥ इति परोक्षाया आमि एठाञ्चक्रे । एठिता । "स्वरादे:-" ४।१।४। इति द्वित्वे एटिठिषते ॥ हेठि । हेठते। जिहेठे। हेठिता । णौ "णि-वेत्ति-" ५।३।१११। इत्यने विहेठना शाठ्यम् ॥
६७७ मठुङ् ६७८ कठुङ् शोके । शोकः अत्र आध्यानम् । उदित्त्वाद ने मण्ठते ममण्ठे। 5 मण्ठिता ॥ कठुङ् । उदित्त्वाद् ने कण्ठते उत्कण्ठते उत्कण्ठ्यते उच्चकण्ठे । घञि उत्कण्ठः। ते उत्कण्ठितः । क्ते सेट्त्वात् "क्तेटो-" ५।३।१०६ इत्यः, उत्कण्ठा। उणादौ "हृषि-वृति-" (उ० ४८५) इति उले उत्कण्ठुलः । कठुण् शोके "युजादेर्नवा-” ३।४।१८। इति वा णिचि उत्कण्ठयति उत्कण्ठति ॥ ६७९ मुठुङ् पलायने । उदित्त्वाद् ने मुण्ठते । मुमुण्ठे । मुण्ठिता ॥
10 ६८० वठुङ् एकचर्यायाम् । एकस्यासहायस्य चर्या गतिस्तस्याम् । उदित्त्वाद् ने वण्ठते। ववण्ठे । वण्ठिता । अचि वण्ठः ॥
६८१ अठुङ् ६८२ पडुङ् गतौ। उदित्त्वाद् ने अण्ठते । “अनातो-" ४।१।६९। इति पूर्वस्यात्वे ने च आनण्ठे। अण्ठिता ॥
अथ डान्तात्रयोविंशतिः सेटश्च
पडुङ् । उदित्त्वाद् ने पण्डते पपण्डे । गत्यर्थत्वात् कर्तरि ते पण्डितः । अचि पण्डः ।क्ते सेटत्वात् "क्तटो" ५।३।१०६। इत्यः, पण्डा । उणादौ “जठर-क्रकर-" (उ० ४०३) इति अरे निपातनात् पाण्डरः। पाण्डुरिति तु "पनेर्दीर्घश्च" (उ० ७६६) इति डौ पैनतेः । मेध्वादित्वात् - रे तु पाण्डुरः॥
६८३ हुर्डङ ६८४ पिडुङ् सङ्घाते । उदित्वाद् ने हुण्डते । जुहुण्डे। हुण्डिता। अचि हुण्डं सम- 20 न्ततो विषम देहसंस्थानम् नामकर्मभेदानां पग्णां संस्थानानामन्त्यस्य विपाको नरकभवनियतः । "क्तेटो-" ५।३।१०६। इत्यः, हुण्डा । "नाग्नि पुंसि च" ५।३।१२१॥ इति णके हुण्डिका । उणादौ "किलि-पिलि-" (उ० ६०९) इति इः, हुण्डिः पिण्डित ओदनः॥ पिडुङ् । उदित्वाद् ने पिण्डते। पिण्डयते। पिपिण्डे। पिण्डिता। घत्रि पिण्डः; स्त्रियां गौरादित्वाद् डीः, पिण्डी। उणादौ "किलिपिलि-" (उ० ६०८) इति इः, पिण्डिर्निष्पीलितलेहः पिण्डः । पिडुण सङ्घाते पिण्डयति ॥ 26
६८५ शडुङ् रुजायां च । चकारात् सङ्घाते । तालव्यादिः । उदित्त्वाद् ने शण्डते । शशण्डे । १ “विपूर्वोऽयमिति स्वामि-काश्यपौ"-माधव० धा० पृ. ७४ धातुअं० २६४ ॥२ विवाधनं शाठयम्माधव० धा० पूर्ववत् ॥३ पालने इति माधवधातुवृत्तौ पृ. ७३ धातुअं० २६२ ॥ ४ पनि स्तुती इत्यस्य ॥ ५ "मध्वादिभ्योः " ७।२।२६। इति सूत्रेण ॥ ६ “अत्र काश्यपः-आर्यास्तु न पठन्ति द्रविडास्तु पठन्तीति । भाष्यादौ तु 'हुण्डा' इति 'अविगीतम्' उदाद्धियते"-माधव० धा० पृ. ७४ धातुअंक २६६॥