________________
आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे शण्डिता । अचि शण्ड उत्सृष्टपशुक्रषिश्च । षण्ड इति तु सनेतेरौणादिके डे बाहुलकात् षत्वम् ।।
६८६ तडुङ् ताडने । उदित्त्वाद् ने तण्डते। ततण्डे । तण्डिता । "क्तेटो-" ५।३।१०६। इत्यः, वितण्डा । उणादौ "हृषि-वृति-" (उ० ४८५) इति उले तण्डुलः । तण्डुरिति तु तनोताडौं ।
तण्डुना प्रोक्तमित्यणि ताण्डवम् ॥ 5 ६८७ कडुङ् मदे । उदित्त्वाद् ने कण्डते । कण्डिता । अचि कण्डम् । उणादौ "जठर-क्रकर-"
(उ० ४०३) इति अरे कण्डरी स्नायुसङ्घातः। “कटि-पटि-" (उ० ४९३) इति ओले कण्डोलो विदलभाजनविशेषः । कण्डुरिति तु कणेर्डी । कडुण खण्डने च कण्डयति ॥ .
६८८ खडुङ् मन्थे । उदित्त्वाद् ने खण्डते । चखण्डे । खण्डिता। घनि खण्डः । खडण मेदे खण्डयति ॥ 10 ६८९ खुडुङ् गतिवकल्ये । उदित्त्वाद् ने खुण्डते । चुखुण्डे । खुण्डिता । चुरादेराकृतिगणत्वात् खुडण् खण्डने खुण्डयति ॥
६९० कुडुङ् दाहे । उदित्त्वाद् ने कुण्डते। चुकुण्डे । कुण्डिता । आधारे "व्यञ्जनाद्-" ५।३। १३२॥ इति घनि कुण्डम् । स्त्रियां "भाज-गोण-" २।४।३०। इति ड्याम् कुण्डी अमत्रम् ।
"क्तटो-" ५।३।१०६। इस्यः, कुण्डा । उणादौ "मृदि-कन्दि-" (उ० ४६५) इति अले कुण्डलम् । 1b कुडुण रक्षणे कुण्डयति ।।
६९१ वडुङ् ६९२ मडुङ् वेष्टने । विभाजनेऽप्यन्ये । विभाजनं विभागीकरणं चर्माभावश्च । उदित्त्वाद् ने वण्डते । ववण्डे । वण्डिता । अचि घञि वा वण्डः॥ मडुङ् । उदित्त्वाद् ने मण्डते। ममण्डे । मण्डिता। अचि घञि वा मण्डो रसायम् । णके मण्डकः । उणादौ "मृ-मन्यञ्जि-" (उ० .
५८) इति ऊके मण्डूकः । “मृदि-कन्दि-" (उ० ४६५) इति अले मण्डलम् , स्त्रियां गौरादि- . 20 त्वाद् ड्याम् मण्डली । “मी-मसि-" (उ० ४२७) इति ऊरे मण्डूरं लोहमलम् । “हृषि-पुषि-" (उ० ७९७) इति ण्यन्तात् इत्नौ मण्डयित्नुः । मडु भूषायाम् मण्डति । मडण् भूषायाम् मण्डयति ॥
६९३ मड्डङ् परिभाषणे । उदित्त्वाद् ने भण्डते । बभण्डे । अचि भण्डः । भाडमिति तु भामर्डः । मडुङ् कल्याणे भण्डयति । "णि-वेत्ति-" ५।३।१११। इत्यने भण्डना ॥ 25. ६९४ मुडुङ् मजने । मज्जनं शोधनम् न्यग्भावश्च । उदित्त्वाद् ने मुण्डते । मुमुण्डे । मुण्डिता । घत्रि मुण्डः । मुडु खण्डने च मुण्डति ।।
१ षन् भक्ती इत्यस्मात् "पञ्चमाद् डः" (उ० १६८) इति डप्रत्ययः बाहुलकात् सत्वाभावश्च ॥ २ तनूयी विस्तारे इत्यस्य "तनि-मनि-कणिभ्यो दुः" (उ० ७६५) इति डौ॥ ३ सूत्रे आदिग्रहणात् ॥ ४ कण शब्दे इत्यस्य "तनि-मनि-कणिभ्यो दुः” (उ० ७६५) इति हुप्रत्यये ।। ५ "वडि विभाजने, मडि वेष्टने इति नन्दी पठति"-माधक धा० पृ० ७४ धातुअं० २६९ ॥ ६ भामि क्रोधे इत्यस्य "पश्चमाद डः" (उ. १५८) इति डप्रत्यये।