SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ आत्मनेधातवः ६३४-६५३] स्वोपझं धातुपारायणम् । ६४४ द्राघृङ् आयासे च । चकारात् सामर्थे । आयासः कदर्थनम् । कौशिकस्त्वायामे इत्याह, दैर्घ्य विशिष्टायां क्रियायामिति च व्याख्यत् । काल्पनिके हि प्रकृतिप्रत्ययविभागे द्राघिमादयः कस्मिंश्चिद्व्याकरणे धातोरेव साधिताः । एवं नेदत्यादेर्नेदिष्ठादयोऽपि । द्राघते । द्राषिता । ऋदित्त्वाद् के न इस्वः, अदद्राघत् । किपि “ग-ड-द-बादे:-" २।१।७७। इति आदिचतुर्थत्वे प्रधाक् ॥ ६४५ श्लाघृङ् कत्थने । कत्थनमुत्कर्षाख्यानम् । “श्लाघ-हनु-स्था-" २।२।६०। इति चतु- 6 या॑म् मैत्राय श्लाघते । शश्लाघे । श्लाषिता । ऋदित्त्वाद् उ न ह्रस्वः, अशश्लाघत् । "क्तेटो-'" ५।३। १०६। इत्यः, श्लाघा ।। अथ चान्तात्रयोदश सेटश्च ६४६ लोचङ् दर्शने । लोचते । ऋदित्त्वाद् डे न हूस्वः, अलुलोचत् । क्ते आलोचितम् । अनटि आलोचनम् । “तिक्कृतौ नाम्नि' ५।१।७१। इति णके लोचकः स्त्रीशिरोवस्त्रम् । लोचूण भासार्थः 10 आलोचयति । "णि-वेत्ति-" ५।३।१११। इत्यने आलोचना ॥ ६४७ पचि सेचने । सेचनं सेवां भजनमिति यावत् । “षः सो-" २।३।९८। इति सत्वे सचते । सेचे । षोपदेशत्वात् असीषचत् । “णि-स्तोरेवा-" २।३।३७। इति नियमात् षत्वापन्ने सनि षत्वाभावे सिसचिषते। उणादौ “पलि-सचेरिवः” (उ० ५२२) सचिवः । “कृसि-कमि-" (उ० ७७३) इति तुनि सच्यते स्नेहेनेति सक्तुः । चन्द्रस्तु षव समवाये इति वान्तमधीते, तन्मते सति ।। 15) ६४८ शचि व्यक्तायां वाचि । तालव्यादिः । शचते । शेचे । शचिता । उणादौ “पदिपठि-" (उ० ६०७) इति इः, शची ॥ ६४९ कचि बन्धने । कचते । चकचे । सनि चिकचिषते । अचि "पुन्नाम्नि-'" ५।३।१३०॥ धे वा कचाः शिरःप्राग्भागकेशाः । कर्मणि घञि काचः ॥ . ६५० कचुङ् दीप्तौ च । चकाराद् बन्धने । उदित्त्वाद् ने कञ्चते। कञ्च्यते । चकञ्चे। चिक- 20 श्चिषते । अचिकश्चत् ।क्ते सेट्त्वाद् घ्यणि कत्वाभावे कञ्च्यम्। उणादौ “कञ्चुकांशुक-" (उ०५७) इति उके कञ्चुकः । “कुशिक-हृदिक-" (उ० ४५) इति इके निपातनात् काचिकम् । “विदनगगन-" (उ० २७५) इति अने निपातनात् काञ्चनं हेम । “कमि-वमि-" (उ० ६१८) इति णित् इ:, काश्चिः ॥ ६५१ श्वचि ६५२ श्वचुङ् गतौ । श्वचते । शश्वचे । शिश्वचिषते । उ अशिश्वचत् ॥ 25 श्वचुछ । उदित्त्वाद् ने श्वञ्चते । श्वञ्च्यते । शश्वञ्चे । शिश्वश्चिषते । अशश्वश्चत् ॥ ६५३ वचिं दीप्तौ । वर्चते । ववर्चे । वर्चिता। क्ते सेट्त्वाद् घनि कत्वाभावे वर्चः । एवं चान्तेषु जान्तेषु च क्ते सेट्सु सर्वेषु वाच्यम् । “नाम्नि पुंसि च" ५।३।१२१। इति णके सुवर्तिका टङ्कणम् । १ आलोचितः संपा१ वा• प्र० ।। २चिषति सं। सं२ तपा०प्र० मु०॥ ३चिकचिषति संपा१ ॥ ४ सूत्रे आदिग्रहणात् सं१ टि.॥ धा.पा.११
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy