________________
आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे उणादौ "मुरलोरल-" (उ० ४७४) इति अले सुवर्चला शाकम् । “अस्" (उ० ९५२) इति असि वर्चः अशुचि-तेजसी ॥
६५४ मचि ६५५ मुचुङ्कल्कने। करकनं दम्भः शाठ्यं कथनं च । मचते । मेचे । मचिता ॥ मुचेत्यपि चन्द्रः मोचते ॥ मुचुङ् । उदित्त्वाद् ने मुश्चते, मुञ्च्यते । मुमुश्च । मुधिता। मु6 च्लंती मोक्षणे मुञ्चति, मुच्यते ॥
६५६ मचुङ् धारणोच्छ्राय-पूजनेषु च । चकाराद् कस्कने । दीप्तावप्येके। उदित्त्वाद् ने मञ्चते । ममञ्च । मञ्चिता । णौ मञ्चयति । के अममञ्चत् । घमिक्ते सेट्त्वात् कत्वाभावे मञ्चः। णके मश्चिका । उणादौ “कञ्चुकांशुक-" (उ० ५७) इति उके मञ्चुका खटिका ॥
६५७पचुङ् व्यक्तीकरणे । उदित्त्वाद् ने पञ्चते । पपञ्च । पिपश्चिषते। अपपञ्चत्। प्रपञ्च्यते । 10 "नाम्नि पुंसि च" ५।३।१२१॥ इति णके पश्चिका न्यासः । घमि न्यकादित्वात् कत्वे परः ।
उणादौ "ऋ-क-मृ" (उ० ४७५) इति आले पञ्चाल ऋषिः । “उक्षि-तक्षि-" (उ० ९००) इनि पञ्च घटाः । अनुदिदनुस्वारेच्चायमित्येके पचते पक्ता । पचुण विस्तारे प्रपश्चयति । णिच्यलि
प्रपञ्चः॥ 16 ६५८ ष्टुचि प्रसादे। "षः सो-'" २।३।९८। इति सत्वे स्तोचते । तुष्टुचे । णौ स्तोचयति । उ अतुष्टुचत् । यङि तोष्टुच्यते । धनि न्यङ्कादित्वात् कत्वे स्तोकः ॥ अथ जान्ता नव सेटश्च
६५९ एजङ् ६६० भ्रेजुङ ६६१ भ्राजि दीप्तौ । एजते । “गुरुनाम्यादेः-" ३।४।४८। । __इति परोक्षाया आमादेशे एजाञ्चके। एजिता । ऋदित्त्वाद् डे न ह्रस्वः, मा भवानेजिजत् , अत्र 20 ओणेर्ऋदित्करणज्ञापकान्नित्यादपि द्वित्वात् प्रागेव इस्वः प्राप्त ऋदित्त्वेन निषिध्यते। "साहि-साति-"
५।१।५९। इति शे उदेजयः । “एजेः" ५।१।११८। इति खशि अनमेजयः । एज़ कम्पने इत्यस्य तु एजति ॥ भ्रेजुङ् । भेजते । बिभेजे । श्रेजिता । ऋदित्त्वाद् डे न इस्वः, अबिभेजत् ॥
भ्राजि । भाजते । बभ्राजे । प्राजिता । णौ के "भाज-भास-" ४।२।३६। इति वा हस्वे अविभजत् अबभाजत् । “यज-सृज-" २।११८७) इत्यत्र राजिसहचरितस्यैव प्राजेग्रहणादस्य षत्वाभावे यज्लपि 25 बााक्ति, क्तौ प्राक्तिः, किपि विप्राक्; तस्य तु बाम्राष्टिः प्राष्टिः विनाडिति भवति । अत एव च
१ अङ्गान्येजयति इति विप्रहः। वामनस्तु एज कम्पने इति परस्मैपदिण्यन्तात् 'ख' प्रत्ययं मन्यते॥ २ अयं प्रयोगो वैयाकरणैर्न मन्यते । यदाहुः कनकप्रभसूरयः “यज-सृज-मृज-राज-भ्राज"२२११८७ इत्यादिसूत्रस्य वृत्तौ, तस्यैव च लघुन्यासे राजभ्राजोः क्तिरेव धुद इत्यस्य शहायाम् 'ननु यालबन्तयोरनयोरन्योऽपि तिवादि(ट् सम्भवति तस्कथं तिरेव धुडिति, सत्यम् , यङ्लबन्तयोरनयोर्धातुपारा: यणिकानापेव मते प्रयोग इष्यते न वैयाकरणानामिति फिरेवेत्युकम्' इति ॥ ३ दुभ्राजि दीप्ताबित्यस्य धातुअंक-८९४ ॥