________________
आत्मनेधातवः ६०८-६३३] स्वोपझं धातुपारायणम्।
६१३ श्लोकङ् सङ्घाते । सङ्घातः संहननं संहन्यमानश्च । श्लोकते । शुश्लोके। श्लोकिता।। ऋदित्त्वाद् डे न इस्वः, अशुश्लोकत् । घञि श्लोक्यते-पथ्यते श्लोकः ॥
६१४ रोकङ् ६१५ धेकृङ् शब्दोत्साहे । शब्दम्योत्साह औद्धत्यम् वृद्धिश्च । नेकते, दिद्रेके, ट्रेकिता। धेकते, दिधेके, ब्रेकिता। ऋदित्त्वाद् डे न इस्वः अदिद्रेकत् , अदिधेकत् । घमि उद्रेकः ॥
६१६ रेकड ६१७ शकुङ् शङ्कायाम्। शङ्का सन्देहः पूर्वस्यार्थः, यदाह-"आरेकं संशयेऽप्याहुः" [ ] । द्वितीयस्य त्रासश्च । रेकते । आरिरेके । आरेकिता। ऋदित्त्वाद् डे न ह्रस्वः, आरिरेकत् । "क्तेटो-" ५।३।१०६। इत्यः, आरेका । घञि आरेकः ॥ शकुङ् । उदित्त्वाद् ने शकते। शक्यते। शङ्किता। "क्तेटो-" ५।३।१०६॥ इत्यः, शङ्का । उणादौ "हृषि-वृति-" (उ० ४८५) इति उले शड्डूला आयुधम् ॥
10 ६१८ ककि लौल्ये । लौल्यं गर्धश्चापलं च । ककते। इदित्त्वाद् "इ-डितः-" ३।३।२२। इत्यात्मनेपदम् । चकके, अत्राऽऽदेशादित्वाद् "अनादेशादेः-" ४।१।२४। इत्येत्वाभावः । ककिता। अचि काकः, पृषोदरादित्वादीर्घत्वम् ॥
६१९ कुकि ६२० वृकि आदाने । कोकते । चुकुके। कोकिता । "नाम्युपान्त्य-"५।११५४। इति के कुकः। घञि कोकश्चक्रवाकः । “वौ व्यञ्जनादे:-" ४।३।२५। इति क्त्वा-सनोर्वा कित्त्वे ib कोकित्वा कुकित्वा, चुकोकिषते चुकुकिषते । “उति शवऱ्याभ्यः क्तौ भावा-ऽऽरम्भे" ४।३।२६। इति । वा कित्त्वे कुकितमस्य कोकितमस्य, प्रकुकितः प्रकोकितः । उणादौ "कल्यनि-" (उ० ४८१) इति इले कोकिलः॥ वृकि । वर्कते । ववृके । वर्किता । "नाम्युपान्त्य-" ५।१५४। इति के वृकः । “ऋदुपान्त्यात्-" ५।११४१। इति क्यपि वृक्यम् । “अहवर्णस्य" ४।२।३७ इति णौ के गुणापवादे ऋतो वा ऋत्वे अवीवृकत् अववर्कत् ॥
20 ६२१ चकि तृप्ति-प्रतीघातयोः। चकते । चेके । ते चकितः। उक्तार्थयोर्घटादित्वाद् "घटादे:--" ४।२।२४। इति णौ ह्रस्वे चकयति; जि-णम्परे तु वा दीर्घ अचाकि अचकि, चाकं चाकम् चकं चकम् ; अर्थान्तरे तु ह्रस्वाभावे चाकयति । उणादौ "चकि-रमि-विकसेरुच्चास्य" (उ० ३९३) इति रे चुक्रः अम्लो रसो बीजपूरकमिजिका असुरः निमन्त्रणं च । “कठि-चकि-" (उ० ४३३) इति ओरे चकोरः ॥
६२२ ककुङ् ६२३ श्वकुछ ६२४ बकुङ् ६२५ अकुङ् ६२६ श्लकुङ् ६२७ ढौक ६२८ नौकड ६२९ वष्कि ६३० वस्कि ६३१ मस्कि ६३२ तिकि ६३३ टिकि ६३४
१ शब्दोत्साहयोः इति केचित् ॥ २ उत्साहो वृद्धिरिति चन्द्रः। औद्धत्यमिति क्षीरस्वामी ॥३ भाद पूर्वः संशये इति माधवधातुवृत्तौ (पृ. ५५ धा. ८०) आरेकं संशयं प्राहुः इति च ॥४ "शङ्का स्यात् संशये भये" इत्यनेकार्थसंग्रहे (कां० २ श्लो. १५) हेमवचनात् अत्र त्रासार्थोऽपि प्रायः।
25