________________
७८
आचार्यश्रीहेमचन्द्रविरचितं
[भूवादिगणे "ण-स्वरा-" २।४।४। इति ड्यां नो रत्वे च पीवरी ॥
अथ कान्ता एकानत्रिंशत् सेटश्च६०८ वकुङ् कौटिल्ये । गतावपीत्येके' । उदित्त्वाद् ने वकते, वह्निता, वजितुम् । अचि वर्ष काष्ठम् । उणादौ “खुर-क्षुर-" (उ० ३९६) इति निपातनाद् रे वक्रम् । “तङ्कि-वफ्यकि-' (उ० 5 ६९२) इति रिः, वक्रिः पार्थास्थि ॥
६०९ मकुङ् मण्डने। उदित्त्वाद् ने मङ्कते । ममके। मिमक्षिते । “इ-डितो-'" ५।२।४४। इत्यने मनः मकना वस्त्रविशेषः । उणादौ “तृ-कृ-श-" (उ० १८७) इति अणे मऋण ऋषिः । "महेर्नलुक् वोच्चास्य" (उ० ४२४) इति उरे मुकुर आदर्शो मुकुलं च, मकुर आदर्शः कल्कः बालपुष्पं च ॥ 10. ६१० अकुङ् लक्षणे । गतावप्येके । लक्षणं चिह्नम् । उदित्त्वात् ने अङ्कते । अङ्कयते। “अनातो
नधा-" १।१।६९। इति पूर्वस्यात्वे ने च आनथे । "म्नां धुड्-" १।३।३९। इत्यत्रान्वित्यधिकाराद् द्वित्वे कर्तव्ये नकार एवास्ते ततो "न ब-द-नं संयोगादिः" ४।१।५। इति नो न द्विरुच्यते, अश्चिकिषते । “व्यञ्जनाद् घञ्" ५।३।१३२। इति घनि अकयतेऽस्मिन् निधाय कान्तावक्त्रं शलाकयेत्यङ्क
उत्सङ्गः । उणादौ "वाश्यसि-" (उ० ४२३) इति उरे अङ्कुरः । “घञ्युपसर्गस्य बहुलम्" ३।२।८६। 15 इति दीर्घत्वे अङ्करः । अङ्कण् लक्षणे अङ्कयति । “णिवेत्त्यास-" ५।३।१११। इत्यने अङ्कना ।
६११ शीकृङ् सेचने । गतावप्यन्ये । तालव्यादिः । शीकते। शिशीके । शीकिता। शीकितुम् । ऋदित्त्वाद् णौ डे "उपान्त्यस्यासमान–' ४।२।३५। इति हूस्वाभावे अशिशीकत् । अचि "क्तेटो-"५।३।१०६॥ इत्यप्रत्यये वा शीका । अनटि शीकनम् । उणादौ "ऋच्छि-चटि-"(उ०३९७)
इति अरे शीकरः । शीकण आमर्षणे “युजादेर्नवा" ३।४।१८। इति वा णिचि शीकयति शीकति ॥ 20 ६१२ लोकङ् दर्शने । लोकते। लुलोके । ऋदित्त्वाद् णौ डे ह्रस्वाभावे अलुलोकत् । लोकितुम् , लोक्यते । लोकः, "भावा-ऽकोंः" ५।३।१८। इति घञ् , लोकतेऽस्मिन्नवस्थितोऽनन्तज्ञानः सर्वभावानिति वा लोकः । आलोक्यतेऽनेनार्थ इत्यालोकः, "व्यञ्जनाद् घञ्" ५।३।१३२। इति पञ्। लोकण भासार्थः लोकयति । उणादौ "शम्बूक-शाम्बूक-" (उ० ६१) इति ऊके निपातनाद् ऊर्ध्व लोकनाद् उलूकः॥
१ पाणिनीयाः॥२ "खुर-क्षुर-" (उ. ३९६) इत्यत्र आदिग्रहणात् यद्वा "ऋज्यजि-तश्चि" (उ• ३८८) इत्यनेन वञ्चू गतौ इत्यस्यापि रप्रत्ययेनैव ॥ ३ "बहुलवचनात् दीर्घत्वम्"-इति हेमचन्द्रपादाः (उ. ४२३) सूत्रवृत्तौ । ४ "धनपाल-काश्यपौ अयं दन्त्यादिरिति अत एव षोपदेशलक्षणे सृपि-सृजि-स्तुस्त्या-सीकृ-सेक-सूवर्जम् इति पेठतुः । अयं पाठो न ज्यायान, शीकर इति प्रयोगाननुकूलात् , षोपदेशाः सृपिसजि-स्त्या-स्तु-स्तृ-सू-सेकृवर्जम् ।" इति कारिकाविरोधाच्च । वामनाचार्योऽपि "अज़दन्त्यपराः सादयः पोपदेशाः स्मि-स्विदि-स्वदि-स्वजि-स्वपितयश्च। सृपि-सृजि-स्तृ-स्त्या-सेक-सुवर्जम्" इति (काशिका अ.11110) पठन्नत्रैवानुकूलः इति" माधव. धा. पृ. ५५ धातुअं. ७५ तथा ८५ ।