________________
भाचार्यश्रीहेमचन्द्रविरचितं
[भूषादिगणे ५६७ रक्ष पालने । चौराद् रक्षति । ररक्ष । रक्षिता । “ग्रहादि-"५।१।५३॥ इति णिनि निरक्षी। ते रक्षितः । ते सेट्त्वात् "क्तेटो-" ५।३।१०६। इत्यः, रक्षा । उणादौ "अस्" (उ० ९५२) इति असि रक्षः, भीमादित्वादपादाने साधुः । प्रज्ञादित्वात् स्वार्थेऽणि राक्षसः ॥
५६८ मक्ष ५६९ मुक्ष सङ्घाते । मक्षति मक्षिता । णके मक्षिका । रोषेऽयमित्येके । घनि मक्षो मन्युः ॥ मुक्ष । मुक्षति । मुक्षिता ।।
५७० अक्षौ व्याप्तौ च । चकारात् सङ्घाते । “वाऽक्षः" ३।४।७६। इति श्ः, अक्ष्णोति अक्षति ।, "अनातो-,४।१।६९। इत्यात्वे ने च आनक्ष आनक्षतुः आनक्षुः । औदित्त्वाद् "धूगौदितः" ४।४। ३८॥ इति वेटि अष्टा अक्षिता । वेट्त्वात् क्तयोनेंट् , अष्टः अष्टवान् । उणादौ “जठर-क्रकर--'' (उ०
४०३) इति अरे अक्षरम् । “पदि-पठि-" (उ० ६०७) इति इः, अक्षि । “उक्षि-तक्षि-" (उ० 10 (उ० ९००) इति अनि अक्षा दृष्टिनिपातः ॥
५७१ तक्षौ ५७२ त्वक्षौ तनूकरणे । तनूकरणं काय॑म् । “तक्षः स्वार्थे वा” ३।४।७७। इति भुः, तक्ष्णोति तक्षति । स्वार्थः पाठापेक्षया तनूकरणम् , इदमेव ज्ञापकम्-'धातवोऽनेकार्थाः' इति। स्वार्थादन्यत्र सन्तक्षति वाग्भिः शिष्यम्-निर्भद्यते इत्यर्थः । ततक्ष। औदित्त्वाद्वेट् , तष्टा तक्षिता । वेट्
त्वात् क्तयोर्नेट , तष्टः तष्टवान् । णके तक्षकः । उणादौ “उक्षि-तक्षि-" (उ०९००) इति अनि तक्षा, 16 "स्त्रियां नृत-" २।४।१। इति ड्याम् तक्ष्णी ॥ त्वक्षौ । त्वक्षति । तत्वक्ष । औदित्त्वाद् वेट् , त्वष्टा, त्वक्षिता । वेट्त्वात् क्तयोर्नेट् , त्वष्टः त्वष्टवान् ॥
५७३ णिक्ष चुम्बने । चुम्बनं वक्त्रसंयोगः । “पाठे-" २।३।९७। इति णस्य नत्वे निक्षति । "अदुरुपसर्गा-" २।३।७७। इति णत्वे प्रणिक्षति, परिणिक्षति । निक्षिता । “निंस-निक्ष-" २।३।८।।
इति कृति वा णत्वे प्रनिक्षणम् प्रणिक्षणम्, प्रनिक्षिता प्रणिक्षिता। कृदभावेऽपि वा णत्वम् इत्येके, 20 प्रनिक्षति प्रणिक्षति । एवं निस-निन्दोरपि ॥
५७४ तृक्ष ५७५ स्तृक्ष ५७६ णक्ष गतौ । तृक्षति । ततृक्ष । तृक्षिता। अचि तृक्षः । तृक्षस्यापत्यं वृद्धम् तार्क्ष्यः॥ स्तृक्ष । स्तृक्षति । तस्तृक्ष । स्तृक्षिता । षोपदेशोऽयम् इति चन्द्रः॥ पक्ष । “पाठे"-२।३।९७। इति णस्य नत्वे नक्षति । “अदुरुपसर्गा-" २।३।७७। इति णत्वे प्रणक्षति ।
अचि नक्षः। उणादौ "वृग्-नक्षि-" (उ० ४५६) इति अत्रे नक्षत्रम् । नखादिसूत्रे त्वस्य निपातनम्25 'नाम्नां व्युत्पत्तिरव्यवस्थिता' इति ज्ञापनार्थम् ॥
१"मी ज्यजि-मा-मद्यशौ-चसि-किभ्यः सरः" (उ० ४३९) इति सूत्रेण सरप्रत्ययेऽपि अक्षरम् ॥ २ “जठरक्रकर-" (उ०४०३) इत्यत्र तु आदिग्रहणात् ॥३अत्र “पदि-पठि-"(उ० ६.७)इत्यत्र आदिग्रहणात् अक्षि-इति । ४ पत्यं ताjः संपा १ वा. सं सं २ तपा• ॥ ५ अत्र “गर्गादेर्य" ६११४२॥ इति यय-प्रत्ययः॥ ६ न क्षीमते न क्षरति वा नक्षत्रम् । यद्वा भद संवरणे इति सौत्रो धातुः, न क्षदति प्रभामिति नक्षत्रम् , “हुया-मा-धु-" (उ० ४५१) इति । उभयत्र नचादित्वात् सिद्धम् ॥ ७ “नखादयः" ३।२।१२८॥ इति सूत्रम् ।