SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ परस्मैधातवः ५५१-५६६ ] स्वोपशं धातुपारायणम् । ७१ I 1 ५५९ बृड्डू ५६० बृहु शब्दे च । चकाराद् वृद्धौ । बर्हति । बबर्ह । बर्हिता । ऋदित्वाद् "ऋदिच्छि - " ३/४/६५ | इति वाऽङि अबृहत्, पक्षे अबहत् । शतरि बर्हन् बर्हन्तौ बर्हन्तः । के बर्हकः ॥ बृहु । उदित्वाद् ने बृंहति । बृंहिता । क्ये बृंह्यते । णके बृंहकः । बृहन् बृंहन्तौ बृंहन्तः । ते बृंहितम् । “क्षुब्ध - विरिब्ध - " ४ । ४ । ७० । इति निपातनात् के परिबृढः । उणादौ " बृंहे - नऽच्च" ( उ० ९१३) इति मनि ब्रह्म । " हि - बृंहेर्नलुक् च " ( उ० ९९०) इति इसि बर्हिः ॥ 5 ५६१ उड्डृ ५६२ तुट्ट ५६३ दुड्ढ अर्दने । ऋदितस्त्रयो ऽपि। ओहति। ‘“उपसर्गस्या–”१।२।१९। इत्यवर्णलोपे अपोहति। ऋदित्त्वाद्वाऽङि औहत्, पक्षे औहीत् ॥ तुड्डृ । तोहति । ऋदित्त्वाद्वाङि अतुहत् अतोहीत् । उणादौ " वृजि- तुहि - " ( उ० २८३ ) इति इने तुहिनम् ॥ दु दोहति । ऋदित्त्वाद्वाऽङि अदुहत् अदोहीत् ॥ . " ५६४ अई ५६५ मह पूजायाम् । अर्हति । “अनातो -" ४।१।६९ । इत्यात्वे ने च आनई 10 आनर्हतुः आनर्हुः। अर्हिता। “अर्होऽच्" ५।१।९१ । पूजार्हः पूजार्हा । "सुग-द्विषा -" ५।२।२६। इति तृशि त्रिलोक्यभ्यर्चनप्रकर्षमर्हति अर्हन् । “व्यञ्जनाद्- " ५।३।१३२ । घञि “ न्यङ्कग - " ४।१।११२। इति घे च अर्हन्ति तेनेति अर्धी मूल्यं पूजाद्रव्यं च । अधिधत्वन्तरं च सौत्रम्, अर्धः । “कलां नार्घन्ति षोडशीम्” । [ ] “शक-धृष–” ५।४।९०। इति तुमि अर्हति भोक्तुम् । अर्हण् पूजायाम् | अर्हयति । “अयमर्थ- 15 विशेषे पूजायामेव चुरादिः” इति पूजाया अन्यत्र योग्यत्वादौ न णिच्, अर्हति । इह च पूँजायां पाठात् पूजायामपि णिजभावः ॥ मह । महति । महिता । अचि महः, गौरादित्वाद् ङयाम् मही । " हि वृह - " ( उ० ८८४) इति कतरि महान् महान्तौ महान्तः । “अस्” (उ०९५२) इति असि महः महसी । "महेरुच्चास्य वा" ( उ० ८९) इति खेऽन्तलुकि च मुखम्, मखः । "महे - र्णिद्वा" ( उ० २८५) इति इने माहिनं महिनं च राज्यम्, महिनो माहात्म्यवान् । "मयविभ्यां 20 टित्” (उ० ५४७) इति इषे महिषः, महिषी । महण पूजायाम् महयति ॥ अथ क्षाम्ता विंशतिः सेटश्व – क्षान्तानां षान्तेषु पाठो युक्तः, वैचित्र्यार्थं त्विह कृतः ॥ ५६६ उक्ष सेचने । उक्षति । " गुरुनाम्यादेः - " ३ | ४ | ४८ । इत्यामादेशे उक्षाञ्चकार । उक्षिता । ते उक्षितः । " व्यतिहारे-" ५।३।११६ । इति जे “नित्यं ञ- " ७|३|५८ | इति स्वार्थेऽणि व्यायुक्षी । उणादौ "उक्षि-तक्षि - " ( उ० ९००) इति अनि उक्षा ॥ 25 १ विक्रीयमाणस्य धान्यादेरियत्ता पूजाविधेिश्व इति माधवीयधातुवृत्तौ पृ० १२९ धातु० ६६२ ॥ २ अर्घ मूल्ये इति सौत्रोऽयम्, तथा च श्रीमन्तो हेमहंसगणयः - अत्र यथोक्तसकल सौत्रादिधातूनां सङ्ग्रह श्लोकाः --- कम्ब्वादिरथ स्तम्भूस्तन्द्राः कि-पति- गृहि - चिरि-जु-कुर्भूस्तर्कः । कक्किः कर्कि: सिकि मर्कि-चकि-मकि- रिखिका - मिर्चाच ||१|| इत्यादि ॥ ३ पूजायाः पा ० १ २ तपा० ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy