________________
आचार्यश्रीहेमचन्द्रविरचितं [भूवादिगणे जर्ल्स परिभाषण-हिंसा-तर्जनेष्वित्येके ॥ जर्सति । जस॑न्ती स्त्री ॥ अथ हान्ताः पञ्चदश मिहं-दहंवर्जाः सेटश्च५५१ मिहं सेचने । मेहति । मिमेह । अनुस्वारेत्त्वात् नेट् , मेढा । मेढुम् । “ह-शिटो-"३।४।५५। इति सकि अमिक्षत् । “नाम्युपान्त्य-" ५।१।५४। इति के मिहः । “लिहादि-" ५।१।५०। अचि 5 "व्यञ्जनाद्-" ५।३।१३२। इति घनि वा "
न्य द्-" ४।१।११२। इति घत्वम् , मेघः । "ऋवर्ण-" ५।१।१७। इति व्यणि मेह्यः । “नी-दाव्-" ५।२।८८। इति त्रुटि मेदः । अनटि मेहनम् । “दास्वत्साह-" ४।१।१५। इति निपातनात् कसौ मीद्वान् मीद्वांसौ । उणादौ "शुषीषि-" (उ० ४१६) इति किति इरे मिहिरः ॥
५५२ दहं भस्मीकरणे । दहति । ददाह। अनुस्वारेत्त्वाद् नेट् , दग्धा, धक्ष्यति । "गृ-लुप-" 10 ३।४।१२। इति यङि "जप-जभ-" ४।१।५२। इति पूर्वस्य मौ दन्दयते। यङ्लुपि दन्दहीति दन्दग्धि । व्यणि दाह्यम् । “व्यञ्जनाद्-" ५।३।१३२॥ पनि निदधतेऽस्मिन्निति निदाघः, भावे घनि दाघः, कर्मणि अवदाघः भक्ष्ये "
न्य द्ग-" ४।१।११२। इति घत्वम् ; अन्यत्र अवदाहः। "वेर्दहः" ५।२।६४। इति घिनणि विदहनशीलो विदाही। “परे:-" ५।२।६५। इति परिदाही।
उणादौ “य्वसि-रसि--'' (उ० २६९) इति अने दहनः॥ 15 ५५३ चह कल्कने । कल्लनं शाठ्यम् । चहति । चचाह चेहतुः चेहुः । “व्यञ्जनादे:-"४।३।४.७।
इति वा वृद्धेः “न श्वि-जागृ-" ४।३।४९। इति प्रतिषेधात् अचहीत् । यति चाचरते। यङ्लपि चाचहीति चाचादि । अचि चहः शठ इत्यर्थः । चहण कल्कने अदन्तः चहयति । "चहणः शाठ्ये" ४।२।३१। इति निणम्परे णौ वा दीर्घे अचाहि अचहि, चाहं चाहम् , चहं चहम् ॥
५५४ रह त्यागे। रहति । रराह रेहतुः रेहुः । “न श्वि-जागृ-" ४।३।४९। इति वृद्धिप्रतिषेधात् 20 अरहीत् । उणादौ "कृ-वा-पा-जि-" (उ० १) इति उणि राहुः । “अस्" (उ० ९५२) इति असि रहः । रहण त्यागे रहयति । अलि विरहः ॥
५५५ रहु गतौ । उदित्त्वाद् ने रंहति । ररंह । रंहिता । उणादौ "अस्” (उ० ९५२) इति असि रंहः । रहुण गतौ रंहयति ॥
५५६ दृह ५५७ दृहु ५५८ बृह वृद्धौ । दर्हति । ददर्ह दवहतुः ददृहुः। दहिता ॥ दृहु। 26 उदित्त्वाद् ने दृहति । क्ये दृह्यते । “बलि-स्थूले-" ४।४।६९। इति निपातनात् के हेहेश्च दृढः । हृहितुम् ॥ वृह । बर्हति । बर्हिता । "क्षुब्ध-विरिन्ध-" ४।४।७०। इति निपातनात् क्ते नेट, परिवृढः प्रभुः । उणादौ “द्रुहि-वृहि-" (उ० ८८४) इति कतः, बृहन् बृहन्तौ, बृहती॥
१ मु-आगमे । २ दहेन्यवाभ्यां घनि सज्ञायां हस्य घत्वम्, निदाघः ऋतुविशेषः॥ ३ केवलपानीयपक्वोऽपूपः ।।