________________
परस्मैधातवः ५३६-५५०] स्वोपचं धातुपारायणम् । अनुस्वारेत्त्वाद् नेट् घस्ता, घस्तुम् । “मृ-घस्यदो मरक" ५।२।७३। घस्मरः । घनि घासः । उणादौ "भी-वृधि-" (उ० ३८७) इति रे घस्रो दिनम् । मरम्विषय एव घसिरित्येके ॥
५४५ हसे हसने । हसति । जहास जहसतुः जहंसुः । हसिता । "व्यञ्जनादे:-" ४।३।४७। इति वा वृद्धेरेदित्त्वाद् "न श्वि-जागृ–'४।३।१९। इति प्रतिषेधे अहसीत् । “क्रियाव्यतिहारे-"३।३।२३। हसो वर्जनाद् नात्मनेपदम् , व्यतिहसन्ति । “न वा क्वण-" ५।३।४८। इति वाशि हसः हासः। 5 उणादौ "दम्यमि-" (उ० २००) इति ते हस्तः । “भी-वृधि-" (उ० ३८७) इति रे हस्रो दिनम्, सहस्रं दश शतानि ॥ .५४६ पिस ५४७ पेसृ ५४८ वेस गतौ । पेसति। पिपेस । पेसिता। ऋदित्त्वाद् णौ के
"उपान्त्यस्या-" ४।२।३५। इति इस्वाभावे अप्रिपेसत् । “नाम्युपान्त्य-" ५।१५४। इति के पिसः । “स्थेश-भास-" ५।२।८१। इति वरे पेसनशीलः पेस्वरः । पिसण हिंसायाम् पेसयति ॥ 10 पेस । पेरति । क्ये पेस्यते । पिपेस पेसिता। ऋदित्त्वाद् णौ डे अपिपेसत्। के पेसितम् ॥ वेस । वेसति । क्ये वेस्यते । विवेस । ऋदित्त्वाद् णौ डे अविवेसत् । वेसिता । ते वेसितम् । उणादौ “जठर-क्रकर-" (उ० ४०३) इति निपातनात् अरे वेसरः ॥
५४९ शसू हिंसायाम् । तालव्यादिः । शसति । शशास । “अनादेशादे:-" ४।१।२४। इत्येत्वस्य "न शस-दद-" ४।१।३०। इति प्रतिषेधात् शशसतुः शशसुः । शसिता । ऊदित्त्वात् शस्त्वा 15 शसित्वा । "धृष-शस-" ४।४।६६। इति प्रगत्भे एव नेट् , विशस्तः प्रगल्भः, अन्यत्रेटि विशसितः। "व्यञ्जनादे:-" ४।३१४७। इति वा वृद्धेः “न श्वि-जागृ-" ४।३।४९॥ इति प्रतिषेधे अशसीत्। "नी-दाव्-" ५।२।८८। इति त्रटि शस्त्रम् । उणादौ “शासि-शंसि-" (उ० ८५७) इति तृः, विशस्ता घातकः ।।
५५० शंख स्तुतौ च । तालव्यादिः । चकाराद् हिंसायाम् । शंसति । शशंस शशंसतुः शशंसुः । 20 क्ये शस्यते । शंसिता। ऊदित्त्वात् शस्त्वा शंसित्वा । क्त्वि वेट्त्वात् क्तयोर्नेट, शस्तः शस्तवान् । "कृ-वृषि-" ५।१।४२। इति वा क्यपि प्रशस्यम् , पक्षे व्यणि प्रशंस्यम् । अणि नृशंसः, यो मृतान् शंसति निर्गतशंसो वा नृशंसः निरनुकम्प इत्यर्थः, पृषोदरादित्वान्निरो नृभावः, अनेकार्थत्वाद्वा द्रोहार्थत्वे नृन् शंसतीति नृशंसः । ब्राह्मणादाहृत्य शंसतीति “अजातेः-" ५।१।१५४। इति णिनि ब्राह्मणाच्छंसी, "ब्राह्मणाच्छंसी" ३।२।११। इति निपातनाद् बसेरलुप् । “शंसि-प्रत्ययात्" ५।३।१०५। 25 इति अः प्रशंसा । उणादौ "चि-मिदि-"(उ० ४५४) इति किति त्रे शस्त्रं स्तोत्रमायुधं च । “शासिशंसि-" (उ० ८५७) इति तृः, शंस्ता पशुविशसिता ॥
१ स-घसि-अदो मरक" ५२।७३। इति विहिते मरक-प्रत्यये एव 'घस' धातोः प्रयोग:-इति भावः । २ जहसुः संपा १ नास्ति ॥ ३ पिपेस संपा, नास्ति ॥ ४ प्रगल्भो जितसभः, अविनीत इति वामनः। तथा च "षि-शासो वैयात्ये १९। पाणिः सत्रे तद्वचः-"वियातस्य भावो यात्यम् प्रागल्भ्यमापनीतता"इति ।