________________
परस्मैधातवः ५२०-५३५] स्वोपशं धातुपारायणम् । "वर्षादयः क्लीबे" ५।३।२९। इति अलि वर्षम् । भिदादयः"५।३।१०८। इति निपातनात् अङि वर्षाः। "क्विप्" ५।१।१४८। इति "क्रुत्सम्पदादिभ्यः" ५।३।११४। इति वा क्विपि प्रवर्षति प्रवर्षन्त्यत्र मेघा इति वा प्रावृट् , अत्र “गतिकारकस्य-"३।२।८५। इति प्रस्य दीर्घः । उणादौ "ऋषि-वृषि-"" (उ० ३३१) इति किति अभे वृषभः। "तृपि-वपि-'' (उ० ४६८) इति किति अले वृषलः । "ऋद्-घृ-'" (उ० ६३५) इति किति णौ वृष्णिः । “लू-पू-यु-" (उ.० ९०१) इति किति अनि । वृषा इन्द्रः । “दिवि-पुरि-" (उ० ५९९) इति कित् आः, वृषा प्रबलम् ॥ __ ५२८ मृष सहने च । चकारात् सेचने । मर्षति । मर्षिता । ऊदित्त्वात् क्त्वि वेट्, मृष्ट्वा; इटि "ऋत्तष-" ४।३।२४। इति क्त्वो वा कित्त्वे मृषित्वा, मर्षित्वा । वेट्त्वात् क्तयोर्नेट, मृष्टः मृष्टवान् , अत्रानिट्त्वात् क्तयोः क्षान्तावपि "मृषः क्षान्तौ".४।३।२८। इति न कित्त्वप्रतिषेधः । “शासू-युधि-" ५।३।१४१॥ इति अने दुर्मर्षणः, सुमर्षणः । मृषीच तितिक्षायाम् मृष्यति मृष्यते। अपमृषितं 10 वाक्यमाह ॥
५२९ उपू ५३० श्रिपू ५३१ श्लिष ५३२ पुष ५३३ प्लु दाहे । पञ्चाप्यूदितः । ओषति । “जाग्रुष-" ३।४४९। इति वाऽऽमादेशे ओषाञ्चकार, उवोष । ओषिता । ऊदित्त्वात् क्त्वि वेट , उष्ट्वा उषित्वा । ये तु उदितं न मन्यन्ते तन्मते ऊषित्वा इत्येव भवति । उणादौ "उषेः किल्लुक् च" (उ०८८) इति खे उखा। "वनि कणि-"(उ०१६२) इति ठे ओष्ठः । “घृ-वी-हा-"(उ०१८३) 16 इति किति णे उष्णम् । “सू-मू-खनि-" (उ० ४४९) इति किति त्रटि उष्ट्रः । “उषे च" (उ० ९५९) इति असि ओजो बलम् । “मिथि-रञ्ज्युषि-" (उ०९७१) इति किति असि उषः प्रातः ॥ श्रित। श्रेषति। शिश्रेष। श्रेषिता । श्रिष्ट्वा श्रेषित्वा श्रिषित्वा। श्रिष्टः श्रिष्टवान् । “नाम्युपान्त्य-" ५।१।५४। इति के श्रिषः ॥ श्लिपू । श्लेषति । श्लेषिता श्लिष्ट्वा श्लषित्वा श्लिषित्वा । श्लिष्टः श्लिष्टवान् । अश्लषीत् । श्लिपंञ्च् आलिङ्गने श्लिप्यति । श्लेष्टा। श्लेष्मा । श्लिषण श्लेषणे श्लेषयति ॥ 20 ग्रुषु । प्रोषति। पुप्रोष । प्रोषिता। पृष्ट्वा प्रोषित्वा पुषित्वा। उणादौ "निघृषी-" (उ० ५११) इति किति वे पुष्वा निवृत्तिः ॥ प्लुपू । प्लोषति । पुप्लोष । प्लोषिता । प्लुष्ट्वा प्लोषित्वा प्लुषित्वा । प्लुष्टः प्लुष्टवान् । प्लुषूच् दाहे प्लुष्यति । ग्रुप प्लुषश् स्नेह-सेचन-पूरणेषु पुष्णाति प्लुष्णाति॥
५३४ घृष संहर्षे । घर्षति। जघर्ष । घर्षिता । ऊदित्त्वात् घृष्ट्वा घर्षित्वा । वेट्त्वात् क्तयोर्नेट्, घृष्टः घृष्टवान् । “नन्यादिभ्यः" ५।१।५२। इति अने सङ्घर्षणः । उणादौ "निघृषी-"(उ० ५११) इति 25 किति वे निघष्वोऽनुकूलः ॥
५३५ हप अलीके । हर्षति । जहर्ष । हर्षिता । ऊदित्त्वात् हृष्ट्वा हर्षित्वा । वेट्त्वात् क्तयोर्नेद, ___ इष्टः हृष्टवान् , शील्यादित्वादत्र सत्यर्थे क्तः । “हृषेः केश-गोम-विस्मय-प्रतिघाते" ४।४।७६। ईति
१ नित्यबहुवचनान्तः स्त्रीलिङ्गश्चायम् ॥ २ स्नेहन-सेचन' सं २॥ ३ "घृधू संघर्षे' इति माध० धा• १. १२५ धातुअं० १९५। हैमधातुपाठेऽपि “संघर्ष" इति । ४ इति टिर संपा०१ वा० ॥