SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ परस्मैधातवः ४९९-५१९] स्वोपलं धातुपारायणम् । (उ० ६४१) इति अणौ चर्षणिः चर्षणी कुलटा। "कृषि-चमि-" (उ० ८२९) इति ऊः, कर्पू: कुल्या । कृषीत् विलेखने कृषति कृषते ॥ ५०७ कष ५०८ शिष ५०९ जप ५१० झप ५११ वष ५१२ मष ५१३ मुष ५१४ रुष ५१५ रिष ५१६ युष ५१७ जूष ५१८ शष ५१९ चष हिंसायाम्। कषति । “कूलाऽभ्र-." ५।१।११०। इति खे कूलकषा नदी । “सर्वात् सहश्च" ५।१।१११। सर्वकषः खलः । “कषः कृच्छ्र-ग- 5 हने" ४।४।६७। इति क्तयोर्नेट् , कष्टं कृच्छ्रम् गहनं च, "कषोऽनिटः" ५।३।३। इति भविष्यति साधुः। "अजातेः शीले" ५।१।१५४। इति णिनि पादाभ्यां कषणशीलः पत्काषी, अत्र “हिम-हति-" ३।२।९६। इति पद्भावः । “वेर्विच-" ५।२।५९इति घिनणि विकषणशीलो विकाषी । “गोचर-" ५/३।१३१। इति निपातना घञपवादे घे कषः, आकषः, निकषः। “निमूलात् कषः" ५।४।६२। इति णमि निमूलकाषं कषति । “हनश्च समूलात्" ५।४।६३। समूलेकाषं कषति । उणादौ "स्यमि-कषि-" 10 (उ० ४६) इति ईके कषीका कुद्दालिका । “प्राङः पणि-" (उ० ४२) इति इके प्राकषिको वायुः। "मा-वा-वद्य-ऽमि-" (उ० ५६४) इति से कक्षस्तृणम् गहनारण्यं च, कक्षः कक्षा बाहुमूलम् गृहोपान्तश्च । “कृ-श-कुटि-" (उ० ६१९) इति वा णित् इः कषिनिकषोपलः खनित्रं च, काषिः कर्षकः । “कषेर्ड-च्छौ च षः" (उ० ८३१) इति ऊः, कण्डूः, कच्छूः। “समिण-निकषिभ्यामाः" (उ० ५९८) निकषा पर्वतं नदी। शिष। तालव्यादिः। शेषति। शिशेष। शेषिता । 15 शेषितुम् । केचिदिटं नेच्छन्ति, तन्मते शेष्टा, शेष्टुम् । “नाम्युपान्त्य-" ५।१।५४। इति के शिषः। कर्मणि घनि शेषम् । शिष्लंए विशेषणे विशिनष्टि । शिषण असर्वोपयोगे शेषयति । अचि शेषः अत्र युजादित्वाद्वा णिच् । पक्षे शेषति ॥ जप । जषति । जषिता॥ झष । झषति । झषिता । अचि झषः॥ वष । वषति । वषिता॥ मष । मषति । मषिता । कर्मणि पनि माषः॥ मुष। मोति । मोषिता। मुषश्स्ते ये मुष्णाति । 'मुषेदीर्घश्च" (उ०४३) इत्युणादौ इके मूषिक आखुः, 20 मूषिका तत्स्त्री॥ रुष । रोषति । तादौ "सह-लुभेच्छ-" ४।४।४६। इति वेट्त्वात् रोष्टा रोषिता । रोष्टुम् रोषितुम् । “वेटोऽपतः" ४।४।६२। इति निषेधापवादे "श्वस-जप-" ४।४।७५। इति क्तयोर्वा नेटि रुष्टः रुषितः, शील्यादित्वादत्र सत्यर्थे क्तः । रुषच रोषे रुष्यति ॥ रिप । रेषति । “सह-लुभेच्छ-" ४।४।४६। इति वेटि रेष्टा रेषिता । रेष्टुम् , रेषितुम् । वेट्त्वात् क्तयोर्नेट्, रिष्टः रिष्टवान् । रिष्टम् , अरिष्टम् । उणादौ “निघृषी-" (उ०५११) इति किति वे रिवः ॥ यूष । यूषति । 25 . १ कृच्छू दुःखं तत्कारणं च, गहनं दुरवगाहम् ॥ २ निमूलमित्यत्रात्ययेऽव्ययीभावः, निर्गतानि मूलान्यस्येति बहुव्रीहिर्वा ॥ ३ निमूलं कषतीत्यर्थः ॥ ४ समूलमिति साकल्येऽव्ययीभावो बहुव्रीहिर्वा ॥ ५ समूलं कषतीत्यर्थः ।। ६ 'रण्यं चेति क' संपा१॥ ७ मैत्रेय-सायणादयः॥ ८ "युजादेर्नवा" ३४.१८ । इति सूत्रेण ।। ९ "झानेच्छार्थ-" ५।२।९२। इति सूत्रेण ॥ १०रिषेळञ्जनादेः केचिदिच्छन्ति इति तन्मतसङ्ग्रहपरमिदमुदाहरणम् स्वमते तु ऋषैत् गतौ इत्यस्य ऋष्यः रिपुः हिंस्रश्च इति ॥ घा. पा.
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy